________________
आख्याते सप्तमः पादः
[ २२३ मोक्ता । रेक्ता । सेक्ता । वेक्ता । पक्ता। वक्ता ॥ ३८ ॥ युजि-रुजि-रञ्जि-भुजि-भजि-भञ्जि-सञ्जि-त्यजि-भ्रस्जि-जि-मस्जि
सृजि-निजि-विजि-वजेः। ३९ । एभ्यः विहितस्य व्यञ्जनादेः अशितः प्रत्ययस्य इट् न भवति ।
योक्ता । रोक्ता । रङ्क्ता । भोक्ता । भक्ता । भक्ता । सङ्क्ता । त्यक्ता । भ्रष्टा । यष्टा । मङ्क्ता । स्रष्टा । नेक्ता । वेक्ता । स्वक्ता ।। ३९ ॥ अदि-तुदि-नुदि-शुदि-स्विदि-शदि-सदि-हदि-पदि-स्कन्दि
भिदि-च्छिदः । ४०। एभ्यः विहितस्य व्यञ्जनादेः अशितः प्रत्ययस्य इट् न भवति ।
अत्ता। तोत्ता। नोत्ता। क्षोत्ता। स्वेत्ता । शत्ता। सत्ता। हत्ता। पत्ता। स्कन्ता । भेत्ता । छेत्ता॥ ४०॥ राधि-रधि-धि-क्षुधि-बन्धि-व्यधि-शुधि-बुधि-युधि-साधेः । ४१ ।
एभ्यः विहितस्य व्यञ्जनादेः अशितः प्रत्ययस्य इट् न भवति ।
राधा । रोद्धा । क्रोद्धा। क्षोद्धा । बन्दा । व्यद्धा । शोद्धा । बोद्रा । योद्धा । साधा। ॥ ४१ ॥ आपि-तपि-तिपि-स्वपि-वपि-लपि-लिपि-क्षिपि-छुपि-लुपि
शपि-सपेः। ४२। एभ्यः विहितस्य ब्यञ्जनादेः अशितः प्रत्ययस्य इट् न भवति ।
आप्ता । तप्ता । तेप्ता । स्वप्ता । वा । लसा । लेप्ता । क्षेप्ता। छोप्ता । लोता । शप्ता। सप्र्ता ॥ ४२ ॥
___ यभि-रभि-लभेः । ४३ । एभ्यः विहितस्य व्यञ्जनादेः अशितः प्रत्ययस्य इट् न भवति । यब्धा । रब्धा । लब्धा ॥ ४३ ॥
- यमि-रमि-नमि-गमेः । ४४ । एभ्यः व्यञ्जनादेः अशितः प्रत्ययस्य इट् न भवति ।
यन्ता । रन्ता । नन्ता । गन्ता । ।। ४४ ॥ रिशि-रुशि-क्लिशि-लिशि-विशि-स्पृशि-मृशि-दृशि-दंशेः । ४५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org