________________
२१६ ) आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
आक्शास्यति । आक्शास्यते । आख्यास्यति । आख्यास्यते । वाचि इति किम् ? बोधे-विचक्षणः । वर्जने-परिसंचयः । वधे नृचक्षी राक्षसः । ञकारः फलेशे कर्तरि आत्मनेपदार्थः ।। ८१॥ .
भ्रस्जः असः अर् । ८२ । भ्रस्जः धातोः संबन्धिनः 'अस् इति अवयवस्य अशिति प्रत्यये विषयभूते अर् आदेशो वा भवति ।
भ्रष्टा, भर्टा । भृष्टः, भृजयते बरीभृज्यते, इत्यादौ 'अर्' आदेशे कृते संप्रसारणम् ॥ ८२॥
इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ आख्याते षष्ठः पादः समाप्तः ।। ....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org