SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ आख्याते षष्ठः पादः [ २१५ संयोगात् आशिषि एत् वा । ७५ । संयोगात् परः यः आकारः तदन्तस्य धातोः कृिति आशिषि परायाम् एकारः अन्तादेशो भवति वा । ग्लेयात् , ग्लायात् । कृिति इति किम् ? ग्लासीष्ट || ७५ ॥ दा-मा-गा-पा-स्था-हाकः । ७६ । एषां कृिति आशिषि परायाम् एकारः अन्तादेशो भवति । देयात् । धेयात् । मेयात् । गेयात् । पेयात् । स्थेयात् । हेयात् । 'दा'इति दासंज्ञकस्य ग्रहणात् इह न भवति-दायात् केदारम् । अवदायात् भूमिम् । 'पा'इति पिबतेः ग्रहणम् न पातेः आदादिकत्वात्-पायात् ।। ७६ ।। अयपि व्यञ्जने ईः। ७७ । 'दा'संज्ञकआदीनां 'यप्'वर्जिते व्यञ्जनादौ कृिति अशिति प्रत्यये परे ईकारः अन्तादेशो भवति । दीयते । धीयते । मीयते । गीयते । पीयते । स्थीयते । हीयते । अयपि इति किम् ? अवदाय । अपहाय । किति इति किम् ? दाता ॥ ७७ ॥ घ्रा-धमोः यङि । ७८ । घ्रा-मोः यङि इकारः अन्तादेशो भवति । जेघीयते । देध्मीयते । जाघ्राति, दाध्माति इत्यत्र यङभावात् न भवति ॥ ७८ ॥ हनः वानी वधे । ७९ । हन्तेः वधे वर्तमानस्य यङि परे नी इत्यादेशो वा भवति । जेनीयते, जङ्घन्यते ॥ ७९ ॥ अस्ति-ब्रुवोः भू-वचौ । ८०। अनयोः अशिति प्रत्यये विषयभूते यथासंख्यं भू वच इति आदेशौ भवतः । अभूत् । अवोचत् । अशिति इति किम् ? अस्ति । ब्रूते ।। ८० ।। चक्षः क्शा ख्याञ् वाचि । ८१ । वाचि वर्तमानस्य चक्षः अशिति प्रत्यये विषयभूते क्शाञ् ख्याञ् आदेशौ भवतः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy