________________
२१५j आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
वा परोक्षायाम् । ६८। अदेः परोक्षायां परतः वा घस्ल आदेशो भवति । जघास, जक्षतुः । आद, आदतुः ॥ ६८ ॥
वेत्रः वय् । ६९। वेञः परोक्षायां वय आदेशो वा भवति । उवाय, ऊयतुः । ववौ, ववतुः ।। ६९ ॥
वी: अजः अन-अयव्यञ्जने । ७० । अजते: अनप्रत्यये यकारवर्जितव्यञ्जनादौ च अशिति प्रत्यये परे वीः आदेशो वा भवति ।
प्राजनः दण्डः, प्रवयणः दण्डः । प्राजितुम् , प्रवेतुम् । प्राजिता, प्रवेता । प्राजितव्यम् प्रवेतव्यम् ॥ ७० ॥ .
अघञ्-अल-क्यप-अचि । ७१ । धञ्-अल् क्यप्-अच्वर्जिते अशिति प्रत्यये परे वी: आदेशो नित्यं भवति ।
वीयात् । विवाय । वीयते । प्रवेयम् । प्रवायकः । अघञ्-अल्-क्यप्-अचि इति किम् ? समाजः । समजः । समज्या । अजति इति अजः ॥ ७१ ॥
सः तः सि । ७२ । घातोः सकारान्तस्य अशिति सकारादौ प्रत्यये तः स्यात् । __ अवात्सीत् । वत्स्यति । अवत्स्यत् । व्यतिवत्सीष्ट । विवत्सति । सः इति किम् ? यक्षीष्ट । सि इति किम् ? वसिषीष्ट ॥ ७२ ॥
दीङः यक् किति अचि । ७३ । दीङः कृिति अशिति अचि स्वरे प्रत्यये परे यक् आगमः भवति । उपदिदीये । उपदिदीयाते । अचि इति किम् ? उपदेदीयते । कृिति इति किम् ? उपदानम् ॥ ७३ ॥
इट-एत्-पुसि च आतः लुक् । ७४ । आदन्तस्य धातोः अशिति स्वरादौ किति इटि एति पुसि च परे लुक् भवति । पपुः । अदधत् । पपिथ । ब्यतिरे। अयुः । अशिति इति किम् ? यान्ति ॥ ७४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org