SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ आख्याते षष्ठः पादः [२१३ स्वरात् उपसर्गात् तश् । ६१। 'स्वर'अन्तात् उपसर्गात् परस्य दासंज्ञकस्य धावर्जितस्य किति 'तकार'आदौ प्रत्यये परे तर आदेशो भवति । शकारः सर्वादेशार्थः । प्रत्तः । प्रत्तवान् । स्वरात् इति किम् ? निर्दत्तम् । दासंज्ञकस्य इति किम् ? दातं बर्हिः । अवदातं मुखम् ।। ६१ ॥ प्रदानः ते वा आरम्भे । ३२। प्रात् परस्य दाञः आरम्भे विहिते तकारे परे तर आदेशो भवति वा । प्रत्तम् , प्रदत्तम् । प्रात् इति किम् ? परीत्तम् । आरम्भे इति किम् ? प्रत्तम् ॥६२॥ नि-वि-सु-अनु-अवात् । ६३ । एभ्यः परस्य दाञः ते परे तश् आदेशो भवति वा । नीत्तम् , निदत्तम् । वीत्तम् , विदत्तम् । सूत्तम् , सुदत्तम् । अनूत्तम् , अनुदत्तम् । अवात्तम् , अवदत्तम् । अनारम्भार्थः योगः ॥ ६३ ॥ धात्रः हिः। ६४। धाञः 'तकार'आदौ किति प्रत्यये परे हिः आदेशो भवति । हितः । अकारः धेनिवृत्त्यर्थः-धीतः ॥ ६४ ।। हाकः त्वि । ६५ । हाकः त्वाप्रत्यये परे हिः आदेशो भवति । हित्वा । ककारः 'हानिवृत्त्यर्थः-हात्वा । त्वि इति किम् ? हीनः ।। ६५ ॥ यपि च अदः जग्ध् । ६६ । अदः 'तकार'आदौ किति प्रत्यये परे यपि च जग्ध आदेशो भवति . जग्धिः । जग्धः । जग्धवान् । प्रजग्ध्य । 'किति तादौ' इत्येव सिद्धे 'यप्' ग्रहणम् अन्तरङ्गात् अपि कार्यान्तरात् प्रागेव यप् भवति इति ज्ञापनार्थम् , तेन 'प्रशमथ्य' इत्यादौ दीर्घादि न भवति । अन्नम् इति अदेः औणादिको नः ॥६६॥ घस्लू घञ्-अद्यतनी-सन्-अच्-अलि । ६७ । .. अदेः 'घञ्' आदिषु परेषु घस्ल आदेशो भवति । . घासः । अघसत् । जिघसति । घसः। अल्-प्रघसः। लकारः लदित्कार्यार्थः ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy