SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २१२ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । कारयामास । स्पृहयालुः । मण्डयन्तः । महयाय्यः । स्तनयित्नुः ।। ५२ ।। लघोः व्यञ्जनात् यपि । ५३ । लघोः परं यद् व्यञ्जनम् तस्मात् परस्य णेः यपि परे अय् आदेशो भवति । प्रशमय्य । लघोः इति किम् ? प्रतिपाद्य । वचनात् एकेन वर्णेन व्यवधानम् ॥५३॥ वा आप्नोतेः। ५४ । आप्नोतेः परस्य णे: यपि परे वा अय् भवति । प्रापय्य, प्राप्य । आप्नोतेः इति किम् ? अध्याप्य ।। ५४ ।। मेङः मित् । ६५ । मेङः यपि परे मित् आदेशो वा भवति । अपमाय, अपमित्य ॥ ५५ ॥ क्षेः क्षीः । ५६। क्षेः यपि परे क्षी आदेशो भवति । प्रक्षीय ।। ५६॥ दो-सो-मा-स्थाम् किति तादौ इत् । ५७ । एषां किति 'तकार'आदौ प्रत्यये परे इकारः अन्तादेशो भवति । दितिः । सितः । मितः । स्थित्वा ॥ ५७ ॥ शः व्रते । ५८। व्रतविषयस्य श्यतेः किति 'तकार'आदौ प्रत्यये परे इत् भवति । संशितः व्रते । संशितः व्रती ॥ ५८ ।। छः च वा । ८९ । छ्यतेः श्यतेश्च किति 'तकार'आदौ प्रत्यये परे इः वा भवति । अवच्छातः, अवच्छितः । निशातः, निशितः ॥ ५९ ॥ दत् दः अधः। ६०। धावर्जितस्य दासंज्ञकस्य धातोः किति 'तकार'आदौ प्रत्यये परे दत् आदेशो भवति । दत्तम् । दासंज्ञकस्य इति किम् ? दातं बर्हिः ॥ ६० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy