________________
ख्यिाते षष्ठः पादः
[ २११ बेभिदिता । व्यञ्जनात् इति किम् ? लोलूयिता । अशिति इति किम् ? बेभिद्यते । धातोः परस्य इति किम् ? ईर्ण्यिता ॥ ४५ ॥
कितः वा । ४६। व्यञ्जनात् परस्य कितः यकारस्य अशिति प्रत्यये परे वा लुग् भवति ।
समिधिष्यति, समिध्यिष्यति । दृषदिता, दृषधिता । अशिति इति किम् ? समिध्यति ॥ ४६॥
दरिद्रः अद्यतन्याम् । ४७ । दरिद्रातेः अद्यतन्यां विषये वा लुग् भवति । अदरिद्रीत् , अदरिद्रासीत् ॥ ४७ ॥
अवुञ्-वुण-स्सन्नन्ते । ४८ । दरिद्रात: 'बुञ् 'आदिवर्जिते अशिति प्रत्यये विषयभूते लुग् भवति ।
दरिद्यते । दुर्दरिद्रः । अशिति इति किम् ? दरिद्राति । 'वुञ्'आदिप्रतिषेधः किम् ? दरिद्रायकः । दरिद्रायकः । दरिद्रीयकः याति । दिदरिद्रासति । दरिद्रागम् ॥ ४८॥
अतः । ४९। अदन्तात् धातोः विहिते अशिति प्रत्यये परे पूर्वस्य अकारस्य लुग् भवति । कथयति । चिकित्सिता । विहितविशेषणम् किम् ? ततः ॥ ४९॥
णेः अनिटि । ५० । अनिटि अशिति प्रत्यये परे णे: लुग् भवति । आटिटत् । अनिटि इति किम् ? कारयिता ॥ ५० ॥
सेटोः क्तयोः। ५१ । सेटोः क्त-क्तवत्वोः परयोः णे: लुग् भवति । गणितः । गणितवान् ।। ५१॥
आम्-आलु-अन्त-अय्य-इत्नौ अय । ५२ । एषु परेषु णेः अय् आदेशो भवति ।
१ अत्र प्रश्नादिअर्थबोधकः णक-बुञ्-प्रत्ययः । २ अत्र केवलं कर्तृसूचकः वुञ् प्रत्ययः ।
३ अत्र क्रियायां क्रियार्थायां वुञ प्रत्ययः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org