SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । सिच्- आशिषौ आत्मने । ३८ | इकः परं यद् व्यञ्जनम् तदन्तात् धातोः परे' सिच्- आशिषौ आत्मनेपदविषये अनिटौ विद्वत् भवतः । अभित्त । भित्सीष्ट | आत्मने इति किम् ? अस्राक्षीत् । अनिटौ इति किम् ? अवर्तिष्ट ? वर्तिषीष्ट । व्यञ्जनात् इति किम् ? अचेष्ट । चेषीष्ट ॥ ३.८ ॥ 1 २१० ] ऋवर्णात् । ३९ । ऋवर्णात् धातोः परे' अनिटौ सिच् - आशिषौ आत्मनेपदविषये विद्वत् भवतः । अकृत । कृषीष्ट । अतीष्ट । तीर्षीष्ट । अनिटौ इति किम् ? वरिषीष्ट ॥ ३९॥ गमः वा । ४० । गमः पैरे आत्मनेपदविषये सिच् - आशिषौ वा किद्वत् भवतः । समगत, समगस्त । संगसीष्ट, संगसीष्ट ॥ ४० ॥ यमः सिच् विवाहे । ४१ । 'विवाह' अर्थात् यमेः आत्मनेपदविषयः सिच् किद्वत् वा भवति । उपायत, उपायंस्त कन्याम् । विवाहे इति किम् ? अयंस्त पादौ ॥ ४१ ॥ सूचने । ४२ । 'सूचन' अर्थात् यमेः आत्मनेपदविषयः सिच् द्वित् भवति । उदायत - सूचितवान् इत्यर्थः ॥ ४२ ॥ हन्तेः । ४३ । हन्तेः आत्मनेपदविषयः सिच् विद्वत् भवति । आहत || ४३ ॥ दा-स्थोः इच् । ४४ । अनयोः आत्मनेपदविषयः सिच् किद्वत् भवति, तद्योगे च अनयोः इकारः अन्तादेशः । अदित । अधित । अस्थित ॥ ४४ ॥ व्यञ्जनात् यः अशिति लुक् । ४५ । व्यञ्जनान्तात् धातोः परस्य यकारस्य अशिति प्रत्यये परे लुग् भवति । १ स्त्रीलिङ्गे द्विवचनम् सिच्-आशिषौ इत्यस्य विशेषणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy