________________
आख्याते षष्ठः पादः
[ २०९ वान् इत्यादि । शीङ्-पू-डीङाम् अनुबन्धोच्चारणात् यङः श्लुचि न प्रतिषेधः-शेश्यितः । हेडितः । पोपुवितः । सेटौ इति किम् ? डीनः, डीनवान् ॥ ३० ॥
मृषः क्षान्तौ । ३१ । क्षान्तौ वर्तमानात् मृषः सेटौ क्त-क्तवतू किद्वत् न भवतः ।
मर्षितः, मर्षितवान् । क्षान्तौ इति किम् ? अपमृषितं वाक्यम् आह । सेटौ इति किम् ? मृष्टः ॥ ३१ ॥
। क्त्वा । ३२ । धातोः परः क्त्वा सेट किद्वत् न भवति। देवित्वा। सेट् इति किम् ? कृत्वा ॥ ३२ ॥
स्कन्द-स्यन्दः । ३३ । आभ्यां क्त्वा किद्वत् न भवति । स्कन्वा । स्यत्वा । अनिडर्थ वचनम् ॥ ३३ ॥
क्षुध-क्लिश-कुष-गुध-मृड-मृद-बद-वसः। ३४ । एभ्यः क्वा सेट् किद्वत् न भवति ।
क्षुधित्वा । क्लिशित्वा । कुषित्वा । गुधित्वा। मृडित्वा । मृदित्वा । उदित्वा । उषित्वा ॥ ३४ ॥
रुद-विद-मुष-ग्रह-स्वप-प्रच्छः सन् च । ३५ । एभ्यः सन् क्त्वा च किद्वत् भवति ।
रुरुदिषति।, विविदिषति । मुमुषिषति । जिघृक्षति । सुषुप्सति । पिपृच्छिषति ।रुदित्वा । विदित्वा। मुषित्वा । गृहीत्वा । सुत्वा । पृष्ट्वा ॥ ३५ ॥
इकः अनिट् । ३६ । 'इ'अन्तात् धातोः अनिट् सन् किद्वत् भवति ।
चिचीषति । लुलूपति । इकः इति किम् ? पिपासति । अनिट् इति किम् ? शिशयिषते ॥ ३६॥
व्यञ्जनात् । ३७। इकः परं यद् व्यञ्जनम् तदन्तात् धातोः अनिट् सन् किद्वत् भवति । बिभित्सति ॥ ३७॥
२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org