________________
आख्याते सप्तमः पादः व्यञ्जनादेः अत्र-उणादि-घोषवतः इट् । १। धातोः परस्य अशितः प्रत्ययस्य व्यञ्जनादेः इट् आगमो भवति, न तु त्रस्य उणादेः घोषवतश्च ।
लविता । अत्र-उणादि-घोषवतः इति किम् ? शस्त्रम् । भव्यम् । ईश्वरः । तन्तुः । जन्तुः । ॥ १ ॥
तेः ग्रहादिभ्यः । २। ग्रहादेः परस्य तेः अशितः प्रत्ययस्य इट् आगमो भवति ।
गृहीतिः। उपस्निहितिः । ‘ग्रह'आदयः प्रयोगगम्याः । 'ग्रहादेः एव' इति नियमार्थ वचनम् ॥ २ ॥
__ ग्रहेः एकस्वरात् अपरोक्षायां दीर्घः । ३ । ग्रहः एकस्वरात् परस्य इटः दी? भवति न तु परोक्षायाम् ।
ग्रहीता । एकस्वरात् इति किम् ? जरीग्रहिता । अपरोक्षायाम् इति किम् ? जगृहिव ॥ ३ ॥
वा वृ-ऋतः न आशी-परस्मैसिचि च । ४ । वृञ्-वृद्भयाम् ऋदन्तेभ्यश्च परस्य इटः वा दी? भवति, न तु आशिषि, परस्मैपदविषये च सिचि, परोक्षायां च ।
प्रावरीता, प्रावरिता । वरीता, वरिता । तरीता, तरिता । न आशी:-परस्मैसिचि च इति किम् ? प्रावरिषीष्ट । आस्तरिषीष्ट । प्रावारिष्ट । आस्तारिष्ट । प्राववरिथ । तेरिथ ॥ ४ ॥
सिच्-आशिषोः आत्मने इट् । ५। वृद्भ्याम् ऋदन्तेभ्यश्च परयोः आत्मनेपदविषययोंः सिच्-आशिषोः इट् आगमो वा भवति ।
प्रावृत, प्रावरिष्ट । अवृत, अवरिष्ट । आस्तीष्ट, आस्तरिष्ट । प्रावरिषीष्ट, प्रावृषीष्ट । वृषीष्ट, वरिषीष्ट । आस्तीर्षीष्ट, आस्तरिषीष्ट । आत्मनेपदे इति किम् ? प्रावारीत् । अतारीत् ॥५॥
संयोगात् ऋतः ।६। धातोः संयोगात् परो यः ऋत् तदन्तात् धातोः आत्मनेपदविषये सिच्-आशिषोः इट् वा भवति ।
२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org