SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आख्याते षष्ठः पादः 1-२०५ हि बुद्धौ आगमनं प्रयुक्तं प्रतीयते । कंसं घातयति नटः, अत्र अभिनयेन । पुष्येण चन्द्रं योजयति गणकः, अत्र ज्ञानेन ॥ ५ ॥ व्यञ्जनादेः एकस्वरात् अगृणा-शुभ-रुचः भृश-आभीक्ष्ण्ये यङ् । ६ । गुणक्रियाणाम् अधिश्रयगादीनां क्रियान्तराव्यपेतानां साकल्येन संपत्तिः फलातिरेको वा भृशत्वम् । प्रधानक्रियायाः विक्लेदादेः क्रियान्तराव्यवायेन आवृत्तिः पौनःपुन्यम् आभीक्ष्ण्यम् । भृशे आभीक्ष्ण्ये च अर्थे वर्तमानात् व्यञ्जनादेः एकस्वरात् गृणा-शुभिरुचिवर्जात् परः यङ् प्रत्ययो वा भवति । भृशम् पुनः पुनर्वा लुनाति लोळूयते । पापच्यते । पक्षे लुनीहि लुनीहि इत्येव अयं लुनाति । व्यञ्जनादेः इति किम् ? भृशम् ईक्षते । एकस्वरात् इति किम् ? भृशं चकास्ति । अगृणा-शुभ-रुचः इति किम् ? भृशं गृगाति, शोभते, रोचते ।। ६॥ 'अटि'आदेः । ७। 'अटि' आदेः भृशे आभीक्ष्ये च अर्थे वर्तमानात् परः यङ् प्रत्ययो भवति वा । अटाट्यते । अरार्यते । अटि अर्ति मूत्रि सूत्रि सूचि अशू ऊर्गु इति 'अटि'आदिः । अपरे जागर्तेः अपि इच्छन्ति-जाजाग्रीयते । अपरे सर्वस्मात् अप्रत्ययात्-अबाव्यते । दादरिद्यते ॥७॥ 'गति अर्थात् कुटिले। ८ व्यञ्जनादेः एकस्वरात् गत्यर्थात् कुटिल एव अर्थे यङ् वा भवति । भृशम् पुनः पुनर्वा कुटिलं कामति चङ्गम्यते । कुटिले इति किम् ? भृशं कामति ॥८॥ 'लुप'आदेः गर्यो । ९। एभ्यः गये अर्थे यङ् प्रत्ययो वा भवति । भृशम् पुनः पुनर्वा गर्हितं लुम्पति लोलुप्यते । जाप्यते । लुप् जप् जभ दह दश चर गृ इति लुपआदिः ॥ ९ ॥ __ लुग बहुलम् । १० । यङः बहुलं लुग् भवति । बोभूयते । बोभोति । बहुलग्रहणम् प्रयोगानुसरगार्थम् ॥१०॥ १. अत्र आ० हेमचन्द्रः ३।४।१२ सूत्रे ‘सद' धातुम् अधिकं पठति । ततः सासद्यते इति साधयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy