SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २०६] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । अचि । ११ । अचि परे यङः लुग् भवति । चेच्यः । लोलुवः ॥११॥ न उतः । १२ । उकारात् विहितस्य यङः अचि परे श्लुग् न भवति । योयूयः ॥ १२॥ गुपौ-धूप-विच्छि-पणि-पनेः आयः । १३ । एभ्यः स्वार्थे आयप्रत्ययो भवति वा । गोपायिता, गोप्ता । धूपायिता, धूपिता । विच्छायिता, विच्छिता । पगायिता, पणिता । पनायिता, पनिता । साहचर्यात् पगिः इह स्तुत्यर्थः । इह न भवति-शतस्य पगते । केचित् अत्र अपि इच्छन्ति । 'गुपौ' इति औकारः यङः लुचि निवृत्त्यर्थः ।। १३ ।। कम्-ऋतेः णिङ्-ईयङ् । १४ । कमि-ऋतिभ्यां परौ यथासङ्ख्यं गिङ् ईयङ् प्रत्ययौ भवतः । कामयिता, कमिता। ऋतीयिता, अर्तिता ॥ १४ ॥ नित्याः शपि । १५ । 'आय आदयः शपि विषये नित्या भवन्ति । गोपायति । घूपायति। विच्छायति । पगायति । पनायति। कामयते । ऋतीयते । इह 'नित्य' ग्रहणात् पूर्वत्र विकल्पः ॥ १५ ॥ • 'चुर'आदिभ्यः णिच् । १६ । एभ्यः स्वार्थे णिच् प्रत्ययो भवति । चोरयति । चिन्तयति । पादयते ॥ १६ ॥ ___ 'युज'आदेः वा। १७ । एभ्यः णिच् प्रत्ययो वा भवति । योजयति, योजति । साहयति, सहति । चुरादिअन्तर्गणः युजादिः ।। १७ ।। भुवेः प्राप्तौ इणिः । १८ । भुवः प्राप्तौ अर्थे वर्तमानात् परः इणिः प्रत्ययो भवति वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy