________________
षष्ठः पादः
'कण्डू'आदेः यक् । १। 'कण्डू' आदेः धातोः परः यक् प्रत्ययः भवति ।
कण्डूयति, कण्डूयते। मन्तूयति । धातोः इति किम् ? कण्डूः । कण्डू मन्तु वल्गु इत्यादि ॥ १॥
किति-तिजि-गुपः 'भिषज्या'आदि-क्षमा निन्दे सन् । २ । एभ्यः यथासंख्यं 'भिषज्या'आदि-क्षमा-निन्दार्थेभ्यः स्वार्थे सन् प्रत्ययः भवति ।
ज्वरं चिकित्सति । चिकित्स्यानि क्षेत्रे तृगानि । चिकित्स्यः पारदारिकः । विचिकित्सति मे मनः-संशेते इत्यर्थः । तितिक्षति। जुगुप्सते । 'भिषन्या'आदि-क्षमा-निन्दे इति किम् ? केतयति । तेजनम् । गोपनम् ॥ २॥ शान-दान-मान-यधात् निशान-आर्जव-जिज्ञासा-वैरूप्ये दीर्घश्च इतः। ३ ।
'शान' आदिभ्यः यथासंख्यं । निशान आदिअर्थेभ्यः स्वार्थे सन् प्रत्ययो भवति, दीर्घश्च एषां पूर्वस्य इतः ।
शीशांसति । दीदांसति । मीमांसते । बोभासते । अर्थोपादानं किम् ? अर्थान्तरे मा भूत्-निशानम् । अवदानम् । मानयति । बाधयति ॥ ३ ॥
वा इच्छायाम् आयात् एकक-कात् अतत्सनः। ४। ___ इच्छायाम् अर्थे धातोः आप्यात् इच्छतिना एककर्तृकात् परः सन् प्रत्ययः भवति वा, न तु इच्छाविहितसन्नन्तात् ।
चिकीर्षति । इच्छायाम् इति किम् ? कर्तुं शक्नोति । नदीकूलं पिपतिषति, श्वा मुमूर्षति इति उपमानात् यथावाक्यम् । एककर्तृकात् इति किम् ? चैत्रस्य गमनम् इच्छति । 'अतत्'ग्रहगात् इह न प्रतिषेधः-चिकित्सिषति । आप्यात् इति किम् ? गमनेन इच्छति। सनः अकारः किम् ? प्रतीषिषति । 'वा' इति वाक्यार्थम् ॥ ४ ॥
प्रयोक्तृव्यापारे णिञ् । ५। धातोः परः प्रयोक्तृव्यापारे णिञ् प्रत्ययो वा भवति । कटं कारयति चैत्रम् । भिक्षा वासयति । राजानम् आगमयति कथकः, कथनेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org