SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २०२ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् गाङ् परोक्षायाम् । ९५ । इङः परोक्षायां गाङ् आदेशो भवति । . अधिजगे ॥ ९५॥ णौ सन्-डे वा । ९६ । सन्परे ङपरे च णौ इङः ‘गा' आदेशो भवति वा । अधिजिगापयिषति, अध्यापिपयिषति । अध्यजीगपत् , अध्यापिपत् ॥ ९६ ॥ ___ क्रियातिपत्तौ गीङ । ९७ । इङः क्रियातिपत्तौ परस्यां गीङ् आदेशो भवति वा । अध्यगीष्यत, अध्यैष्यत ॥ ९७ ॥ ___ अद्यतन्याम् । ९८। इङः अद्यतन्यां परतः गीङ् आदेशो भवति वा । अध्यगीष्ट, अध्यैष्ट । पृथग्योगः उत्तरार्थः ॥ ९८॥ हनः वधः वा तु आत्मने । ९९ । हन्तेः अद्यतन्यां विषये 'वध' आदेशो भवति, आत्मनेपदे वा। अवधीत् । आहत, आवधिष्ट । ' वध' इति अदन्तः अयम् अतः “ व्यञ्जनादेः अतः" [ आख्याते पा० ५ सू० १२ ] इति वृद्धिर्न भवति ॥ ९९ ।। आशिषि अनौ । १००। आशिषि विषये हन्तेः · वध' आदेशो भवति, न तु औ। वध्यात् । आवधिषीष्ट । अऔ इति किम् ? घानिधीष्ट ॥ १० ॥ ह्यस्तनी-अद्यतनी-क्रियातिपत्तिषु अमाङ अट् । १०१ । ' ह्यस्तनी' आदिविषये धातोः अट् आगमो भवति न तु माङः योगे । अकरोत् । अकार्षीत् । अकरिष्यत् । अमाङा इति किम् ? मा भवान् करोत् ।।१०१॥ स्वरस्य आदेः वृद्धिः । १०२ । धातोः आदे: स्वरस्य ' ह्यस्तनी 'आदिविषये वृद्धिर्भवति न तु माङा योगे । आटत् । आटीत् । आटिष्यत् । आर्छत् । ऐहत । औज्झत् । अमाङा इति किम् ? मा स्म भवान् अटत् ।। १०२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy