SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ आख्याते पञ्चमः पादः [२०१ आदेः णः नः । ८८ । पाठे इति वर्तते । पाठे धातोः आदेः णकारस्य नकार आदेशो भवति । णी-नयति । पाठे इति किम् ? णकारीयति ॥ ८८ ॥ षः सः अष्ट्या-ष्ठिव-वष्कः । ८९ । पाठे धातोः 'ष्टया' आदिवर्जस्य आदेः षकारस्य सकारः भवति । षड्-सहते । पाठे इति किम् ? षण्डीयति । ‘ष्ट्या 'आदिप्रतिषेधः किम् ? ष्टयायति । निष्ठीवति । वष्कते ।। ८९॥ लग् बहुलं क्रोञ्-तनि अवस्य । ९० । क्रीञ्-तनोः परयोः 'अव 'शब्दस्य आदेः लुग् बहुलं भवति । वक्रयः, अवक्रयः । वतंसः, अवतंसः । 'बहुल' ग्रहणं प्रयोगानुसरणार्थम् ॥९०॥ धाञ्-नहि अपेः। ९१ । धाञ्-नहोः परयोः अपेः आदेः लुग् बहुलं भवति । पिहितम् , अपिहितम् । पिनद्धम् , अपिनद्धम् ।। ९१ ॥ इण-इकोः अद्यतन्यां गाः । ९२ । इण् इकोः अद्यतन्यां परस्यां — गा' आदेशो भवति । अगात् । अध्यगात् ॥ ९२॥ __णौ गम् अज्ञाने । ९३ । अज्ञाने वर्तमानयोः इण-इकोः णौ परे ‘गम् ' आदेशो भवति । गमयति । अधिगमयति । अज्ञाने इति किम् ? अर्थान् प्रत्याययति ॥९३।। सनि इङश्च । ९४ । 'इण्-इकोः इङश्च सनि परे 'गम् ' आदेशो भवति अज्ञाने । अधिजिगांसते । जिगमिषति । अधिजिगमिषति । अज्ञाने इति किम् ? अर्थान् प्रतीषिषति ॥ ९४ ॥... १ णकारम् इच्छति-इति । २६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy