SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । अषकारान्तात् अ'दुर्' उपसर्गात् अन्तरश्च परात् व्यञ्जनादेः नामिउपान्त्यात् 'भा'आदिवर्जात् धातोः परस्य कृत्प्रत्ययस्थस्य स्वरात् परस्य नकारस्य वा णः भवति । प्रकोपनम् प्रकोपणम् । 'नामि' उपान्त्यात् इति किम् ? प्रवपनम् ॥ ८१ ॥ २०० ] " णेः । ८२ । अपकारान्तात् अ'दुर्' उपसर्गात् अन्तरश्च परात् ण्यन्तात् 'भा' आदिवर्जात् परस्य कृत्प्रत्ययस्थस्य स्वरात् परस्य नकारस्य णः भवति । प्रयापणम्, प्रयापनम् । 'भा' आदिवर्जनं किम् ? प्रभापनम् । प्रभावनम् इत्यादि ॥ ८२ ॥ रः लः अंयौ । ८३ । उपसर्गस्य संबन्धिनः रेफस्य अयतौ परे लकारः भवति । प्लायते । पलायते ॥ ८३ ॥ गिरः यङि । ८४ । गिरते : रेफस्य यङि परे लकारः भवति । निजेगिल्यते ।। ८४ ॥ वा स्वरे । ८५ । गिरतेः धातोः स्वरादौ प्रत्यये परे रेफस्य लकारो वा भवति । गिरति, गिलति । 'गिरौ' ' गिरः' इत्यत्र न धातोः प्रत्ययः इति न भवति ॥ ८५ ॥ डच 'ऋफिड' आदीनाम् । ८६ । 'ऋफिड' आदीनां रेफस्य डकारस्य च वा लकारः भवति । ऋफिड, ऌफिडः । ऋतकः, ऌतकः । ऋफिलः, ऋफिङः । पीडा, पीला । नि-प्रतेः अयतौ । निलयनम्, निरयनम् । प्रत्ययते, प्लव्ययते । परेः घ-अङ्क-योगे । परिघः, पलिघः । पर्यङ्कः, पल्यङ्कः । परियोगः, पलियोगः । स्वरभागमध्यगतरेफः ऋवर्णः स्वरभागमध्यगतलकारश्च ऌवर्णः । ततः रेफस्य लकारे कृते वर्ण एव संपद्यते । 'ऋफिड 'आदयः प्रयोगगम्याः ॥ ८६ ॥ Jain Education International कृपः अ'कृपीट' आदिषु । ८७ । कृपः रेफस्य लकारः भवति न तु ' कृपीट' आदिषु । क्लृप्तः । अचीक्ऌपत् । अ'कृपीट' आदिषु इति किम् ? कृपीटः । कृपणः । कर्पूरः इत्यादि ॥ ८७ ॥ १ 'अय् धातौ परे ' इत्यर्थः । For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy