________________
आख्याते पञ्चमः पादः
द्वयोः । ७५ । अदुर् 'उपसर्गात् अन्तरश्च परस्य अनितेः द्वयोः नकारयोः णः भवति । प्राणिणिषति ।। ७५ ॥
हनः । ७६ । अदुर् उपसर्गात् अन्तरश्च परस्य हन्तेः नकारस्य णः भवति । प्रहण्यते । अन्तर्हण्यते ॥ ७६ ॥
व-मोः वा । ७७। अदुर्उपसर्गात् अन्तरश्च परस्य हन्तेः नकारस्य वकार-मकारयोः परयोः णः वा भवति । प्रहन्वः, प्रहण्वः । प्रहन्मः, प्रहमः ।। ७७ ॥
निक्ष-निंस-निन्दः कृति वा । ७८। एषाम् अदुर्'उपसर्गात् अन्तरश्च परेषां नकारस्य कृति परे णः वा भवति ।
प्रणिक्षणम् , प्रनिक्षणम् । प्रणिंसनम् , प्रनिसनम् । प्रणिन्दनम् , प्रनिन्दनम्। कृति इति किम् ? प्रणिस्ते ॥ ७८ ॥
अंषः स्वरात् अभा-भू-पूञ्-कमि-गमि-प्यायि-वेपः । ७९ ।
अषकारान्तात् अदुर'उपसर्गात् अन्तरश्च परात् 'भा'आदिवर्जात् धातोः परस्य कृत्प्रत्ययस्थस्य स्वरात् परस्य नकारस्य णः भवति ।
प्रयाणम् । प्रयाणीयम् । अषः इति किम् ? निष्पानम् । स्वरात् इति किम् ? निर्भग्नः । 'भा' आदिप्रतिषेधः किम् ? प्रभानम् । प्रभवनम् । प्रपवनम् । प्रकमनम् । प्रगमनम् । प्रप्यायनम् । प्रवेपनम् । कृति इति किम् ? प्रवापेन ॥ ७९ ॥
नमि 'नामि'आदेः एव । ८०।। अषकारान्तात् अदुर् 'उपसर्गात् अन्तरश्च परस्य धातोः नमि सति तस्मात् 'नामि' आदेः एव परस्य कृत्प्रत्ययस्थस्य स्वरात् परस्य नकारस्य णकारः भवति ।
प्रेक्षणम् । नमि इति किम् ? अनमि नियमो मा भूत्-प्रवपनम् । 'नामि'आदेः एव इति किम् ? प्रमङ्गनम् ॥ ८० ॥
'व्यञ्जन आदेः 'नामि'उपान्त्यात् वा । ८१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org