________________
१९८ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । योगः न धातुना इति अनुपसर्गत्वम् ।। ६९ ॥
शः नशः । ७० । अदुर्'उपसर्गात् अन्तरश्च परस्य शकारान्तस्य नशेः नकारस्य णः भवति ।
प्रणश्यति । अन्तर्णश्यति । शः इति किम् ? प्रनश्यति ॥ ७० ॥ नेःमा-दा-नद-गद-पत-पद-स्यति-याति-वाति-द्राति-प्साति-हन्ति-वपी
-वही-शमू-चिञ्-देग्धौ । ७१। __ अदुर्'उपसर्गात् अन्तरश्च परस्य नेः नकारस्य 'मा'आदिषु धातुषु परेषु णकार आदेशो भवति ।
प्रणिमिमीते । प्रगिददाति । प्रणिधयति । प्रणिनदति । प्रणिगदति । प्रणिपतति । प्रणिपद्यते । प्रणिष्यति । प्रणियाति । प्रणिवाति । प्रणिद्राति । प्रणिप्साति । प्रणिहन्ति । प्रणिवपति। प्रणिवहति । प्रणिशाम्यति । प्रगिचिनोति । प्रणिदेग्धि । 'तिप्'अनुबन्धनिर्देशात् यङः लुचि न भवति-प्रनिसासेति इत्यादि। 'दा'साहचर्यात् 'मा' इति मेङ्-माङोः ग्रहणम् तेन इह न भवति-प्रनिमाति ॥ ७१ ।।
पाठे अ'ष'अन्त-'क'-'ख'आदौ शेषे वा । ७२ । 'मा'-दासंज्ञकादिभ्यः शेषे धातुपाठे अप'अन्ते अ'क'-'ख'आदौ परे अ'दुर्'उपसर्गात् अन्तरश्च परस्य नेः नकारस्य णः भवति वा ।
प्रनिपचति, प्रणिपचति । अन्तर्निभिनत्ति, अन्तर्णिभिनत्ति । अप'अन्तै-'क'-'ख'आदौ इति किम् ? प्रनिपिनष्टि । प्रनिकरोति । प्रनिखादः । पाठे इति किम् ? प्रनिपापचीति । इह तु न भवति-प्रेणिवेष्टा ॥ ७२ ॥
परेः अनितेः । ७३ । परेः परस्य अनितेः नकारस्य णः भवति वा । पर्यणिति, पर्यनिति । परेः इति किम् ? प्राणिति ॥ ७३ ॥
अन्ते च । ७४। अदुर' उपसर्गात् अन्तरश्च परस्य अनितेः नकारस्य अन्ते अनन्ते च णः भवति। प्राणिति। हे प्राण ।। ७४॥
१ अत्र प्रणिवेष्टा प्रनिवेष्टा इति रूपद्वयं भवत्येव धातोः शकारान्तस्वात् धातुश्च विशत् प्रवेशने । एवम् अन्यत्रापि-यथा-प्रणिदेष्टा प्रनिदेष्टा इत्यादि बोध्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org