________________
आख्याते पञ्चमः पादः
परेः। ६३ । परेः परस्य स्कन्देः सकारस्य षिः वा भवति । परिष्कत्ता, परिस्कत्ता । परिष्कन्नः, परिस्कन्नः ॥ ६३ ॥
स्फुर-स्फुलः निर्-नेः । ६४। . निर्-निभ्यां परयोः स्फुर-स्फुलोः सकारस्य षिः वा भवति । निःष्फुरति, निःस्फुरति । निःष्फुलति, निःस्फुरति । एवम् नेः अपि ।। ६४ ॥
वेः। ६५। वेः परयोः स्फुर-स्फुलोः सकारस्य षिः वा भवति । विष्फुरति, विस्फुरति । विष्फुलति, विस्फुलति । पृथग्योगः उत्तरार्थः ॥ ६५ ॥
स्कभ्नः । ६६ । वेः परस्य स्क-नातेः सकारस्य षिः भवति । विष्कम्नाति ॥ ६६ ॥
निर्-दुर्-सु-वेः सम-सूतेः । ६७ । एभ्यः परयोः सम-सूतिशब्दयोः सकारस्य षिः भवति । निःषमः । दुःषमः । सुषमः । विषमः। निःषूतिः। दुःपूतिः । सुपूतिः । विषूतिः ॥६७॥
अवः स्वपः। ६८। निर्-दुर्-सु-वेः परस्य अवकारस्य स्वपेः सकारस्य षिः भवति । निःषुप्तः । दुःषुप्तः । सुषुप्तः । विषुप्तः । अवः इति किम् ? विस्वप्नः ॥ ६८ ॥
अदुरः अन्तरश्च हिनु-मीना-आनि-णः नः णः । ६९ ।
'दुर्'वर्जात् उपसर्गात् 'अन्तर्'शब्दात् च परेषां हिनु-मीना-आनिइत्येतेषाम् णकारस्य च नकारस्य णकार आदेशो भवति ।
प्रहिणोति । प्रमीणाति । प्रयाणि । परिणमति । अन्तर्णयति । अदुरः इति किम् ? दुर्नयः । हिनु-मीना-आनि-णः इति किम् ? प्रनृत्यति । नृति-नन्दि-नशि-नर्दि-न-नाटि-नक्कीनां णोपदेशाभावात् । प्रगतः नायकः यस्मात् स प्रनायकः देशः इत्यादौ प्रादेः प्रत्ययार्थेन
१ "नृति नन्दि नदि नशि नाटि नक्कि ना नाथ नृ वर्जम्" इति हेमचन्द्रः-२॥३॥९॥ नृति नर्तने । नदु समृद्धौ । नशि अदर्शने । नर्द शब्दे । न नये | नटण अवस्यन्दने । नक नाशने । इत्येते धातवः । २ टि-नभीनां पा० । पू० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org