________________
१९६ ] आचार्यश्रीमलयगिरिविरचितं शम्दानुशासनम् ।
परि-नि-विभ्यः परस्य सय-सितसकारस्य षिः भवति । परिषयः । निषयः । विषयः । परिषितः । निषितः । विषितः ॥ ५७ ॥
स्तु-स्वञ्ज-सटा वा तु अटि । ५८ । परि-नि-विभ्यः परस्य स्तु-स्वञ्जः सटश्च सकारस्य षिः भवति, अटि तु अन्तरे वा।
परिष्टौति । निष्टौति । विष्टौति । परिष्वजते । निष्वजते । विष्वजते । परिष्करोति । अटि तु वा-पयेष्वजत, पर्यस्वजत । इत्यादि ।। ५८ ॥
सिवेः अङे । ५९। परि-नि-विभ्यः परस्य सीव्यतेः सकारस्य षिः भवति, वा तु अटि, डे तु न स्यात् ।
परिषीव्यति । निषीव्यति । विषीव्यति । पर्यषीव्यत् , पर्यसीव्यत् । अङे इति किम् ? मा परि सिषिवत् ॥ ५९॥
असोः सहः । ६० । परि-नि-विपूर्वस्य असोभूतस्य सहः सकारस्य षिः भवति, वा तु अटि, न तु ।
परिषहते । निषहते । विषहते । पर्यषहत, पर्यसहत । अङे इति किम् ? मा परिसीषहत् । असोः इति किम् ? परिसोढः ॥ ६० ॥
स्यन्दतेः वा अभि-अनोश्च अप्राणिनि । ६१ । अभि-अनुभ्याम् परि-नि-विभ्यश्च परस्य स्यन्दतेः सकारस्य षिः भवति वा, तदर्थश्चेत् प्राणिविषयो न स्यात् ।
अभिष्यन्दते। अनुष्यन्दते । परिष्यन्दते । निष्यन्दते । विष्यन्दते। पक्षे अभिस्यन्दते इत्यादि । अप्राणिनि इति किम् ? अभिस्यन्दते मत्स्यः । परिस्यन्देते मत्स्योदके । 'तिप्'निर्देशात् यङः श्लुचि न भवति । अभिसास्यन्दीति वीचिः ॥ ६१ ॥
वेः स्कन्दः अक्तयोः। ६२ । वेः परस्य स्कन्देः सकारस्य षिः वा भवति, न तु क्त-क्तवत्वोः परयोः । विष्कत्ता, विस्कन्त्ता। अक्तयोः इति किम् ? विस्कन्नः । विस्कन्नवान् ॥ ६२ ॥
१ “पर्युदासोऽयम् 'न तु प्राणिनि प्रतिषेधः' तेन इहापि भवति-अनुष्यन्देते मत्स्योदके । अनुस्यन्देते मत्स्योदके"-अमोघ० ४१.२।२३१। अत्र प्राणी अप्राणी इति उभयं कर्तृ तेन 'अप्राणिनि' इत्यनेन न निषेधः इति-शाकटायनः तथैव च २।३।५० । सूत्रे हेमचन्द्रोऽपि । २ मत्स्यः उदकं चेति उभयं कर्त।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org