________________
आख्याते पश्चमः पादः उपसर्गात् परस्य स्तम्भः सकारस्य द्वित्वे अपि अटि अपि षिः भवति, न चेत् असौ स्तम्भिः ङविषयः प्रतिस्तब्ध-निस्तब्धविषयश्च स्यात् ।
विष्टम्नाति । वितष्टम्भ । व्यष्टभ्नात् । अङ-प्रतिस्तब्ध निस्तब्धे इति किम् ? अभ्यतस्तम्भत् । प्रतिस्तब्धः । निस्तब्धः ॥ ५१ ।।
__ अवात् आविदर्य-ऊर्जा-आश्रये । ५२। अवात् उपसर्गात् परस्य स्तम्भेः सकारस्य द्वित्वेऽपि अटि अपि ' आविर्य 'आदौ अर्थे षिः भवति ।
अवष्टब्धा शरत् । अहो! वृषलस्य अवष्टम्भः । दुर्गम् अवष्टभ्नाति । अवतष्टम्भ । अवाष्टम्नात् । आविर्य-ऊर्जा-आश्रये इति किम् ? अवस्तब्धः वृषलः शीतेन ॥ ५२ ॥
वेश्च स्वनः अशने । ५३ । वेः अवात् च परस्य अशनार्थस्य स्वनः सकारस्य द्वित्वेऽपि अटि अपि षिः भवति ।
विष्वणति । अवष्वणति । विषष्वण्यते । व्यष्वगत् । अशने इति किम् ? विस्वनति मृदङ्गः ॥ ५३ ॥
स्वळेः परोक्षायां तु आदेः । ५४ । उपसर्गात् परस्य स्वोः द्वित्वे अपि अटि अपि सकारस्य षिः भवति, परोक्षायां तु आदेः एव । परिष्वजते । परिषिष्वङ्गते । पर्यष्वजत । परिषस्वजे ॥ ५४॥
सदः अप्रतेः । ५५। प्रतिवर्जात् उपसर्गात् परस्य सदेः सकारस्य द्वित्वे अपि अटि अपि षिः भवति, परोक्षायां तु आदेः। निषीदति । निषापद्यते । न्यषीषदत् । निषसाद ॥ ५५ ॥
परि-नि-वेः सेवः। ५६ । एभ्यः परस्य सेवः सकारस्य द्वित्वे अपि अटि अपि षिः भवति । परिषेवते । निषेवते । विषेवते । विषिषेविषते । व्यषेवते । ॥५६॥
सय-सिते । ५७। १ अत्र ‘परिषिषेवे ' ' निषिषेवे ' ' विषिषेवे' इत्यपि रूपत्रयम् उदाहार्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org