SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १९२ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । उपात् परस्य लभेः यकारादौ प्रत्यये परे स्तुतौ गम्यमानायां नम् भवति । उपलम्भ्या विद्या। स्तुतौ इति किम् ? उपलभ्यम् अस्मात् वृषलात् किञ्चित् ॥३२॥ अम्-औ वा । ३३ । अमि जौ च परे लभेः नम् भवति वा । लम्भलम्भम् , लाभलाभम् । अलम्भि, अलाभि ।। ३३ ॥ खल्-पत्रोः च उपसर्गात् । ३४ । उपसर्गात् परस्य लभेः खलि घनि अमि जौ च परे नम् भवति । ईषत्प्रलम्भम् । प्रालम्भः । प्रालम्भंप्रालम्भम् । प्रालम्भि । उपसर्गात् इति किम् ? लाभः । ॥ ३४ ॥ सु-दुर्व्यः । ३५ । सु-दुभ्यां व्यस्ताभ्याम् समस्ताभ्याम् उपसर्गात् पराभ्यां परस्य लभेः खल्-घञोः परयोः नम् भवति । अतिसुलम्भम् । अतिदुर्लम्भम् । अतिसुदुर्लम्भम् । अतिसुलम्भः । अतिसुदुर्लम्भः । उपसर्गात् इति किम् ? सुलभम् । दुर्लभम् । ' उपसर्गात् एव सु-दुर्व्यः' इति नियमार्थ वचनम् ॥ ३५ ॥ नशेः धुटि । ३६ । नशेः धुडादौ प्रत्यये परे नम् भवति । नंष्ट्वा । धुटि इति किम् ? नशिता ॥ ३६ ॥ मस्जेः सः न् । ३७। मस्जेः सकारस्य धुडादौ प्रत्यये परे ‘नकार' आदेशो भवति । मङ्क्ता । धुटि इति किम् ? मज्जनम् ॥ ३७ ॥ सृजि-दृशोः अकिति अम् । ३८ । अनयोः धुडादौ अकिति प्रत्यये परे अन्न्यात् स्वरात् परः अम् भवति । स्रष्टा । द्रष्टा । अद्राक्षीत् । अमि कृते वृद्धिः । धुटि इति किम् ? सर्जनम् । अकिति इति किम् ? सिसृक्षति ॥ ३८ ॥ तृप-दृप-सप-कृष-स्पृश-मृशः वा । ३९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy