________________
आख्याते पञ्चमः पादः
[ १९३ एषां धुडादौ अकिति प्रत्यये परे अम् वा भवति । त्रप्ता, ता। द्रप्ता, दर्ता । सप्ता, सप्ता। क्रष्टा, की। स्प्रष्टा, स्पा । म्रष्टा, मर्टा ॥३९॥
सम्-परेः कृतः स्सद भूषा-समवाये । ४० । सम्-परिभ्यां परस्य कृञः सट् भवति भूषायाम् समवाये च ।
संस्करोति-परिष्करोति-भूषयति इत्यर्थः । तत्र नः संस्कृतम्-परिष्कृतम्-समुदितम् इत्यर्थः । भूषा-समवाये इति किम् ? संकरोति । 'संस्कृतं वचनम् ' इति भाक्तो निर्देशः । संचस्कार, समस्कार्षीत् इत्यत्र परत्वाच्च सटि कृते द्विर्भाव-अटआगमौ। ‘स्सट्' इति द्विसकारको निर्देशः ततः सकार एव स भवति इति ‘समचिस्करत् ' इत्यादौ षित्वाभावः । 'परिष्करोति' इत्यादौ तु येत्नाद् भावः ॥ ४०॥
उपात् प्रतियत्न-विकृति-वाक्याऽध्याहारे । ४१ । . उपात् परस्य कृञः ' प्रतियत्न'आदिषु भूषा-समवाये च अर्थ सट् भवति ।
एधोदकस्य उपस्कुरुते-तत्र प्रतियतते इत्यर्थः । उपस्कृतं गच्छति-विकृतम् इत्यर्थः । उपस्कृतं जल्पति-सवाक्याधारम् इत्यर्थः-उपस्करोति-इत्यर्थः । तत्र नः उपस्कृतम् समुदितम् इत्यर्थः ॥ ४१ ॥
किरः लवने । ४२। उपात् परस्य लवनविषयस्य किरतेः सट् भवति ।
उपस्कीर्य मद्रका लुनन्ति-विक्षिप्य लुनन्ति इत्यर्थः । लवने इति किम् ? उपकिरति धान्यम् ॥ ४२ ॥
प्रतेश्च वधे । ४३ । प्रतेः उपाच परस्य किरः वधविषये सट् भवति ।
प्रतिस्कीर्णम् उपस्कीर्णं वा ह ते वृषल ! भूयात्-हिंसानुबन्धी विक्षेपः ते भूयात् इत्यर्थः ॥ ४३ ॥
हर्षात् चतुष्पदि अपात् । ४४ । अपात् परस्य किरः सट् भवति हर्षाच्चेत् चतुष्पदि विषये तदर्थः स्यात् ।
अपस्किरते वृषभो हृष्टः । चतुष्पदि इति किम् ? अपकिरति नटः हृष्टः । हर्षात् इति किम् ? अपकिरति श्वा ॥ ४४ ।।
१ "स्तु-स्वज-सटा वा तु अटि" [आख्याते पञ्चमपा० सू० ५८] इति वचनरूपयस्नात् इत्यर्थः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org