SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आण्याते पञ्चमः पादः [१९१ उदितः धातोः अन्त्यस्वरात् परः नम् भवति । वन्दन्ते ।। २४ ॥ 'लिम्प'आदि-तृफ-टफ-गुफ-उभ-शुभः शे । २५ । एषां शे परे अन्त्यात् स्वरात् परः नम् भवति । लिम्पति । सिञ्चति । तृम्फति । दृम्फति । गुम्फति । उम्भति। शुम्भति ॥ २५ ॥ जभः स्वरे । २६ । जभः स्वरादौ प्रत्यये परे नम् भवति । जम्भयति । जम्भकः । स्वरे इति किम् ? जञ्जन्धि ॥ २६ ॥ रधः । २७। रधः स्वरादी प्रत्यये परे नम् भवति । रन्धयति । रन्धकः । स्वरे इंति किम् ? रध्वा ॥ २७ ॥ परोक्षायाम् एव इटि । २८ । इटि परे रधः नम् परोक्षायाम् एव भवति । ररन्धिव । ररन्धिम । परोक्षायाम् इति किम् ? रधिता ॥ २८ ॥ रभेः अपरोक्षा-शपि । २९ । रभेः अपरोक्षा-शपि स्वरादौ प्रत्यये परे नम् भवति । आरम्भयति । अपरोक्षा-शपि इति किम् ? आरेभे । आरभते ॥ २९ ॥ लभः। ३० । लभेः अपरोक्षा-शपि स्वरादौ प्रत्यये परे नम् भवति । लम्भयति । अपरोक्षा-शपि इति किम् ? लेभे । लभते ॥ ३० ॥ आङः यि । ३१ । आङः परस्य लभेः यकारादौ प्रत्यये परे नम् भवति । आलम्भ्या गौः । आङः इति किम् ? लभ्यम् ॥ ३१ ॥ स्तुतौ उपात् । ३२ ।। १ अत्र 'लिम्प आदि'शब्देन मुच्, सिच्, विद्, लुप्, लिप् , कृत् खिद् पिश् इत्येतेषां तदादिअन्तर्गणस्थानां धातूनां ग्रहणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy