________________
१९. ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
घ्रा-धेट्-शा-च्छा-सः वा । १८ । एभ्यः परस्मैपदविषयस्य सिचः श्लुग् वा भवति । __ अघ्रात् , अघ्रासीत् । अधात् , अधासीत् । अशात् , अशासीत् । अच्छात् , अच्छासीत् । असात् , असासीत् । परस्मै इति किम् ? अधिषातां स्तनौ वत्सेन ॥ १८ ॥
'तन्' आदेः थास्-ते । १९ । 'तन्' आदेः परस्य सिचः थासि ते च परे श्लुग् वा भवति ।
अतथाः । अतत । अतनिष्ठाः । अतनिष्ट । असथाः । असत। असनिष्ठाः । असनिष्ट । 'थास्'साहचर्यात् 'त'स्य आत्मनेपदविषयस्य ग्रहणात् इह न स्यात्-अतनिष्ट यूयम् ॥ १९ ॥
हस्व-धुदः सः लुक् तौ । २० । हस्वान्तात् धुडन्तात् च परस्य सिचः सकारस्य तवर्गादौ प्रत्यये परे लुग् भवति।
अकृत । अकृथाः । अभित्त । हस्व-धुट इति किम् ? अमंस्त । 'अच्योष्ट' इत्यत्र परत्वात् लुचः प्रागेव गुणः। सः इति किम् ? अवादिष्ट । तौ इति किम् ? अभैत्सम् । 'लुग्'अधिकारे 'लुग्'वचनं स्थानिकार्यार्थम् तेन 'अवात्त' इत्यादौ "व्यञ्जनानाम् अनिटि" [ आख्याते पा० ५ सूत्र १० , इति सिचः स्थानित्वेन अतः वृद्धिः ।। २० ।।
ईटि इटः । २१ । इटः परस्य सिचः ईटि परे लुग् भवति । अलावीत् । इटः इति किम् ? अकार्षीत् । ईटि इति किम् ? अकणिषम् ॥ २१॥
सः वा धौ । २२। धातोः 'धकार'आदौ प्रत्यये परे सकारस्य वा लुक भवति । अलविध्वम् , अलविद्वम् । चकाधि, चकाद्धि ॥ २२॥
अस्तेः सि हः तु एति । २३ । अस्तेः सकारस्य 'सकार'आदौ प्रत्यये परे लुग् भवति एकारे तु परे हकारः। असि । व्यतिहे। भावयामाहे ॥ २३ ॥
उदितः नम् । २४ । १ “ति इत्यस्य सप्तम्यन्तम् । आ हेमचन्द्रस्तु अत्र "त-थोः" इति निर्दिशति-१।३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org