SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ आख्याते पञ्चमः पादः [ १८९ अकाणीत्, अकणीत् । गौः इव अचारीत् अगावीत्, अगवीत् । व्यञ्जनादेः इति किम् ? मा भवान् अटीत् । अतः इति किम् ? अदेवीत् । सेटि इति किम् ? अपाक्षीत् । अजक्षीत् इत्यत्र व्यवधानात् न भवति ॥ १२ ॥ वद-व्रज-लः । १३ । वद-जोः रेफान्तस्य लकारान्तस्य च धातोः अतः परस्मैपदविषये सेटि सचि वृद्धिः भवति । अवादीत् । अत्राजीत् । अचारीत् | अचालीत् । अतः इति किम् ? न्यखोरीत् । अश्वत् इत्यादौ व्यवधानात् न भवति ॥ १३ ॥ न क्षण - शसि-हू-म्-य्- श्वि-जागृ-एदितः । १४ । क्षणे: शसेः हकारान्तस्य मकारान्तस्य यकारान्तस्य श्वि जाग्रोः एदितां च परस्मैपदविषये सेटि सिचि परे वृद्धिः न भवति । अक्षगीत् । अशसीत् । अग्रहीत् । अचमीत् । अव्ययीत् । अश्वयीत् । अजागरीत् । अकगीत् । यङः श्लुचि अपि प्रतिषेधः - अचाक्षगीत् । न तु एदिताम्, 'क्षण' आदीनाम् एदिवाकरणात् अन्यथा तान् अपि एदितः कृत्वा 'क्षग'आदिग्रहणम् इह न क्रियेत । इटि इति किम् ? अधाक्षीत् ॥ १४ ॥ धूञ्-सु-स्तुभ्यः इट् । १५ । एभ्यः परस्मैपदविषयस्य सिचः इट् भवति । अधावीत् । असावीत् । अस्तावीत् । परस्मै इति किम् ? अघोष्ट || १५ || यमि-रमि-नम्-आताम् सक् च । १६ । एभ्यः परस्य परस्मैपदविषयस्य सिचः इट् भवति सक् च आगमः एतेषाम् । अयंसीत् । व्यरंसीत् । अनंसीत् । अयासिष्टाम् । परस्मै इति किम् ? अयंस्त । बहुवचनं लाक्षणिकार्थम्—अग्लासिष्टाम् ॥ १६ ॥ Jain Education International पिब- एति-दा-भू-स्थः श्लुक् । १७ । एभ्यः परस्य परस्मैपदविषयस्य सिचः लुग् भवति । अपात् । अगात् । अध्यगात् । अदात् । अधात् । अभूत् । अस्थात् । 'पिब'निर्देश: किम् ? 'पा रक्षणे' - धनम् अपासीत् । परस्मै इति किम् ? व्यत्यभविष्ट ॥ १७ ॥ १ 'क्षण' आदीनां यङः लाच प्रतिषेधः एदितां तु यः श्लुचि न प्रतिषेधः इति तात्पर्यम् । For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy