________________
१८८] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम्
'शम्' आदि-ष्ठिवू-क्लमू-आचमः दीर्घः । ७। एषां समानस्य शिति परे दीर्घा भवति । .
शाम्यति । ताम्यति । माद्यति । ठीवति । क्लामति । आचामति । 'आ'पूर्वस्य चमेः ग्रहणात् इह न भवति-चमति । विचमति ॥ ७ ॥
क्रमः परस्मै । ८। क्रमः परस्मैपदविषये शिति परे दीर्घो भवति । क्रामति । परस्मै इति किम् ? आक्रमते सूर्यः ।। ८ ॥
सिचि अङिति वृद्धिः । ९। धातोः समानस्य परस्मैपदविषये सिचि अङिति परे वृद्धिर्भवति ।
अचैषीत् । असावीत् । अतारीत् । अङिति इति किम् ? न्यनुवीत् । परस्मैपदे इति किम् ? अच्योष्ट । समानस्य इति किम् ? गौः इव अचारीत् अगवीत् । अचिकीर्षीत् इत्यत्र परत्वात् लुक् ॥ ९ ॥
व्यञ्जनानाम् अनिटि । १० । व्यञ्जनान्तस्य धातोः समानस्य परस्मैपदविषये अनिटि सिचि परे वृद्धिर्भवति ।
अभैत्सीत् । अरौत्सीत् । अपाक्षीत् । अताप्सीत्। बहुवचनं जातिप्रतिपत्त्यर्थम् तेन अनेकव्यञ्जनव्यवधानेऽपि भवति-असाङ्क्षीत् । समानस्य इति किम् ? उदवोढाम् । अनिटि इति किम् ? अतक्षीत् ॥ १० ॥
वा ऊर्णनः सेटि । ११ । ऊोतेः सेटि परस्मैपदविषये सिचि वृद्धिर्भवति वा । प्रौर्णावीत् , प्रौर्णवीत् ।। ११ ॥
व्यञ्जनादेः अतः।१२। व्यञ्जनादेः व्यञ्जनान्तस्य संबन्धिनः अतः सेटि सिचि परे परस्मैपदविषये वृद्धि भवति ।
१ 'शम-आदि' पदेन शमसप्तकस्य ग्रहणम् । शम् दम् तम् भ्रम् श्रम् क्षम् मद् इत्येवं शमसप्तकम् । २ अत्र “नित्यत्वात् अन्तरङ्गत्वाच्च गुणः" इति हैमन्याससारोद्धारः ॥३।१५ । ३ अत्र अन्त्यअकारस्य लोपः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org