SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ आख्याते पञ्चमः पादः गम्-इषु-यमः छः शिति । १। एषाम् अन्तस्य शिति परे छकारादेशो भवति । गच्छति । इच्छति । यच्छति । इषेः उदितः ग्रहणात् इह न भवति–इष्णाति ॥ १॥ सर्तेः वेगे धाव । २। सर्तेः शिति परे धाव् आदेशो भवति वेगे गम्यमाने । धावति । वेगे इति किम् ? सरति ॥ २॥ ज्ञा-जनः अतिवादी जा । ३ । अनयोः अतिवादी शिति परे 'जा' आदेशो भवति । जानाति । जायते । अतिवादौ इति किम् ? जाज्ञाति । ॥ ३ ॥ पा-घ्रा-ध्मा-स्था-स्ना-दाण-दृशि-अर्ति-श्रौति-कृवु-धिवु-शद-सदः पिबजिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-श-कृ-धि-शीय-सीदम् । ४ । 'पा'आदीनां शिति परे यथासंख्यं पिब'आदयः आदेशा भवन्ति । पिबति । जिघ्रति । धमति । तिष्ठति । मनति । यच्छति । पश्यति । ऋच्छति । शृणोति । कृणोति । धिनोति । शीयते । सीदति । 'तिव् 'अनुबन्धनिर्देशात् यङः श्लुचि न भवति--दर्दशत् इत्यादि । “ अदादि-अनदाद्योः अनदादेः एव ग्रहणम् " [न्यायसंग्रह न्याय ३ वक्षस्कार २ पृ० ५२ ] इति पा-अर्तिघात्वोः भौवादिकयोः ग्रहणम् ॥ ४ ॥ 'पू'आदेः ह्रस्वः । ५। 'पू'आदेः शिति परे हस्वः भवति । पुनाति । लुनाति । ‘क्री'आदिअन्तर्गणः प्वादिः ॥५॥ __एः समानस्य मिदः।६। मिदेः समानस्य शिति परे एकारो भवति । मेद्यति । समानग्रहणम् उत्तरार्थम् ॥ ६ ॥ १ श्रीहेमहंसगणिसंगृहीतो न्यायसंग्रहः प्रकाशितो वाराणस्याम् श्रीयशोविजयजैनप्रन्थमालायाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy