________________
१८६ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
त्वरि-ज्वरि-मवि-अवि-श्रिवः स्वरेण । ७३ । एषाम् अन्तस्य अनुनासिकादौ क्वौ धुडादौ च प्रत्यये परे स्वरेण सह वकारस्य ऊच् भवति । तूर्णः । जूः । मूतिः । ऊतिः । श्रूतिः ॥ ७३ ।।
रात् लुक् । ७४। रेफात् परयोः धातोः च्छकार-वकारयोः अनुनासिकादौ क्वौ धुडादौ च प्रत्यये परे लग् भवति । श्-ऊचोः अपवादः । मूर्मा । मूः । मूर्तिः । तूंर्णः ॥ ७४ ॥
__ ओतः श्ये । ७५ । धातोः ओकारस्य श्ये परे लुग् भवति । द्यति । स्यति । श्य इति किम् ? गौः इव आचरति गवति ॥ ७५॥
सकः स्वरे । ७६ । धातोः परस्य सकः स्वरादौ प्रत्यये परे लुक् अन्तादेशो भवति । अधुक्षाताम् । अधुक्षि । स्वरे इति किम् ? अधुक्षत् ।। ७६ ॥
दुह-दिह-लिह-गुहः वा आत्मने तुवि श्लुक । ७७ । एभ्यः परस्य सकः तवर्गादौ च आत्मनेपदे परे श्लुग् वा भवति ।
अदुग्ध, अधुक्षत । अदुग्धाः, अधुक्षथाः । अदुबहि, अधुक्षावहि । अदिग्ध, अधिक्षत । अलीढ, अलिक्षत । न्यगूढ, न्यधुक्षत । 'लु'ग्रहणं सर्वलोपार्थम् ।। ७७ ॥
अर-एङ् गुणः । ७८ । अर् एङ् च गुणसंज्ञो वेदितव्यः । गुणप्रदेशाः “ हस्वस्य गुणः " [नाम्नि तृतीयपादे सू० ४४ ] इत्येवमादयः ।। ७८ ॥
यवृत् संप्रसारणम् । ७९ । इकारः उकारः ऋकारश्च संप्रसारणसंज्ञो वेदितव्यः ।। ७९ ॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ आख्याते चतुर्थः पादः समाप्तः ॥
१ 'मूर्छा मोह-समुच्छ्राययोः ' धातुः । २ ‘तुर्वै-हिंसायाम् ' धातुः । अत्र तूर्मा । तः । तूर्तिः । एतानि अपि उदाहरणानि योज्यानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org