SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ आख्याते चतुर्थः पादः सम्-परेः वा । ६५ । आभ्यां परस्य व्येञः यपि परे संप्रसारणं वा भवति । संव्याय, संवीय | परिख्याय, परिवीय ॥ ६५ ॥ स्वरस्य अवः दीर्घः । ६६ । स्वरान्तस्य ' वेञ्' वर्जितस्य धातोः संप्रसारणस्य दीर्घः भवति । जीनः । संवीतः । स्वरान्तस्य इति किम् ? सुप्तः । अवः इति किम् ? उतः ॥६६॥ घुटि सनि । ६७ । स्वरान्तस्य धातोः धुडादौ सनि परे दीर्घो भवति । ष्षति । चिकीर्षति । धुटि इति किम् ? यियविषति ॥ ६७ ॥ इगम-नः । ६८ । इकारादेशस्य गमेः हन्तेश्च धुडादौ सनि परे स्वरस्य दीर्घो भवति । अधिजिगांसते । जिघांस्यते' । इकारादेशस्य गमेः ग्रहणात् इतरस्य न भवतिसंजिगंसते ॥ ६८ ॥ तनः वा । ६९ । तनोतेः धुडादौ सनि परे स्वरस्य वा दीर्घो भवति । तितांसति, तितंसति । धुटि इति किम् ? तितनिषति ॥ ६९ ॥ क्रमः कित्त्व । ७० । क्रमेः धुडादौ क्वाप्रत्यये परे स्वरस्य वा दीर्घो भवति । क्रान्त्वा, कन्त्वा । धुटि इति किम् ? क्रमित्वा । प्रक्रम्य ॥ ७० ॥ क्वि किति अहन्पञ्चमस्य । ७१ । वर्जितस्य पञ्चमान्तस्य धातोः स्वरस्य क्वौ धुडादौ किति ङिति परे दीर्घो भवति । प्रशान् । शान्तः। अहन्' इति किम् ? वृत्रहणौ । धुटि इति किम् ? शम्यते ॥ ७१ ॥ च्छ्वोः श्-ऊचौ अनुनासिके च । ७२ । धातोः च्छकार-वकारयोः अनुनासिकादौ क्वौ धुडादौ च प्रत्यये परे यथासंख्यं श् ऊच् इत्यादेशौ भवतः । [ १८५ प्रश्नः । शब्दप्राशौ । पृष्टः । स्योमा । अक्षद्यूः । देद्योति । द्यूतः । केचिद् घुडादौ किति इच्छन्ति तन्मतेन देदेति इत्यादि भवति ॥ ७२ ॥ १ 'हन्' धातोः । २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy