SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आल्याते चतुर्थः पादः अचीकरत् । असमानलुचि इति किम् ? अचकथत् । वादयन्तं प्रायुक्त 'अवीवदत वीणाम्' इत्यत्र णिजातेः निमित्तत्वाश्रयणात् अप्रतिषेधः । लघौ इति किम् ? अततक्षत् । णौ इति किम् ? अचकमत ॥ २७ ॥ लघोः दीघः अस्वरादेः । २८ । असमानलुचि ङपरे णौ अस्वरादेः धातोः द्वित्वे सति पूर्वस्य लघोः लघुनि धात्वक्षरे दी? भवति । अचीकरत् । लघोः इति किम् ? अचिक्वगत् । अस्वरादेः इति किम् ? आटिटत् । असमानलुचि इति किम् ? जगत् आख्यत् अजजगत् । लघुनि इति किम् ? अततक्षत् ॥२८॥ प्रथ-म्रद-स्वर-स्मृ-दृ-स्पशः अत् । २९ । एषाम् असमानलुचि ङपरे णौ द्वित्वे सति पूर्वस्य अत् अन्तादेशो भवति । अपप्रथत् । अमम्रदत् । अतत्वरत् । असस्मरत् । अददरत् । अपस्पशत् ॥ २९ ॥ . चेष्ट-वेष्टो वा । ३० । अनयोः असमानलुचि ङपरे णौ द्वित्वे सति पूर्वस्य अत् वा भवति । अचचेष्टत् , अचिचेष्टत् । अववेष्टत् , अविवेष्टत् ॥ ३० ॥ गणेः ईः । ३१। गणयतेः डे परे द्वित्वे सति पूर्वस्य 'ईकार' आदेशो भवति वा । अजीगणत् , अजगणत् । केचित् कथेः अपि इच्छन्ति---" भूरिदाक्षिण्यसंपन्न यत् त्वं सान्त्वमचीकथः" [ ] ॥ ३१ ॥ इः सनि अतः । ३२। धातोः सनि परे द्वित्वे सति पूर्वस्य अतः ‘इकार' आदेशो भवति । पिपक्षति । अतः इति किम् ? पापचिषते ॥ ३२ ॥ उतः पु-यत्-जि अवणे । ३३ । सनि परे द्वित्वे सति पूर्वस्य उकारस्य पवर्गे यजि जकारे च अवर्णे परे 'इकार'आदेशो भवति । १ “भूरिदाक्षिण्यसंयुक्तं यत्वं शान्त्वचमचीकथः" अमोघ० तथा चिन्तामणि. १११।१०।। हैमे ४११।६७ । सूत्रे तु मलयगिरिप्रोकात् । अत्र अमोघल-चिन्तामण्योः पाठे 'यः स्वम्' इति पाठः उचितः शुद्धश्च भवेत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy