________________
१७८ ]
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
जञ्जयते । जञ्जभ्यते । जप जभ दह दश भञ्ज पश इति । 'दश' इति लुप्तनकारनिर्देशात् यङ: "लुचि अपि नकारलोपः - दन्दशीति । पशिः सौत्रो धातुः ॥ २१ ॥ अतः अनुनासिकस्य । २२ ।
अकारात् परः यः अनुनासिकः तदन्तस्य द्वित्वे सति पूर्वस्य मम् आगमो भवति । यंयम्यते । तय्यते । ममव्यते । य-ल-वानाम् अननुनासिकत्वे - तातय्यते । मामव्यते ॥ २२ ॥
चर-फलाम् उत् च अन् 'ओत्' परस्य अत् । २३ ।
चर - फलयोः यङन्तयोः द्वित्वे सति पूर्वस्य मम् आगमो भवति; तद्योगे च परस्य अतः उकारः स च अन् 'ओत्' ।
चञ्चूर्यते । पंफुल्यते । बहुवचनम् ' त्रिफला विशरणे' इत्यस्यापि परिग्रहार्थम् अन्यथा अनुबन्धकत्वात् ' फल निष्पत्तौ ' इत्यस्यैव स्यात् । अन्' ओत्' इति किम् ? पंफुलितः ॥ २३ ॥
रीम् ऋत्वताम् । २४ ।
ऋत्वतां यङन्तानां द्वित्वे सति पूर्वस्य रीम् आगमो भवति ।
नरीनृत्यते । परीपृच्छ्यते । ऋत्वताम् इति किम् ? चेक्रीयते । 'कृञः रीभावे कृते द्वित्वम् इति ऋत्वत्त्वं नास्ति । बहुवचनम् लाक्षणिकार्थम् ॥ २४ ॥
रम्-रिमौ च श्लुचि । २५ ।
ऋत्वतां यङः लुचि द्वित्वे सति पूर्वस्य रम् रिम् चकारात् रोम् च भवति । नर्नर्ति, नरिनर्ति, नरीनर्ति ॥ २५ ॥
स्वपतेः णौ उः । २६ ।
स्वपतेः णौ परे द्वित्वे सति पूर्वस्य उकारः अन्तादेशो भवति ।
सुस्वापयिषति । असुष्वापकीयत् । णौ इति किम् ? सिष्वापकीयिषति । स्वापं करोति स्वापतः सन्- 'सिष्वापयिषति' इत्यत्र न स्वपेः परः णिः घञा व्यवधानात् । 'तिपू' निर्देशात् यङ: लुचि न भवति – सोषोपयिषति ॥ २६ ॥
असमानलुचि सन्वत् लघौ ङे । २७ ।
न विद्यते समानस्य लुक् यस्मिन् तस्मिन् ङपरे णौ द्वित्वे सति पूर्वस्य लघुनि घावरे परे सनि इव कार्यं भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org