________________
१९७] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम्
पिपविषते । पिपावयिषति । भू-बिभावयिषति । मू-मिमावयिषति । यियविषति । यियावयिषति । रिरावयिषति । लिलावयिषति । जिजावयिषति । पु-यञ्-जि इति किम् ? तुतावयिषति । इदम् एव इत्ववचनं ज्ञापकम्-णिनिमित्त कार्य स्थानिवद् भवति अन्यथा पूर्वेण एव सिद्धम् । अवर्णे इति किम् ? बुभूषति ।। ३३ ।।
श्रु-सु-द्रु-गु-प्लु-च्योः वा । ३४ । एषां सनि परे द्वित्वे सति पूर्वस्य उतः यनि अवर्णपरे इकारो वा भवति ।
शुश्रावयिषति, शिश्रावयिषति । सुस्रावयिषति, सिनावयिषति । दुद्रावयिषति, दिद्रावयिषति । पुप्रावयिषति, पिप्रावयिषति । 'पुप्लावयिषति, पिप्लावयिषति । चुच्यावयिषति, चिच्यावयिषति । उतः इति किम् ? सोस्रविषति ॥ ३४ ॥
ऋ-पृ-भृ-हाङ्-माम् शिति । ३५ । एषां शिति परे द्वित्वे सति पूर्वस्य इकारः अन्तादेशो भवति ।
इयर्ति । पिपर्ति । बिभर्ति । जिहीते । मिमीते । शिति इति किम् ? पपार । शिति परे द्वित्वे इति किम् ? परीपर्ति ॥ ३५ ॥
निजि-विजि-विषाम् एत् । ३६ । एषां शिति परे द्वित्वे सति पूर्वस्य एकारः अन्तादेशो भवति । नेनेक्ति । वेवेक्ति । वेवेष्टि । शिति इति किम् ? निनेज ॥ ३६ ॥
अस्य आदेः आः परोक्षायाम् । ३७ । परोक्षायां परतः धातोः द्वित्वे सति पूर्वस्य आदेः अतः आकारो भवति । आटतुः । आदेः इति किम् ? पपाच ।। ३७ ।।
'ऋत्'आदि-अनेकव्यञ्जन-अश्नोः नक् च । ३८ । 'ऋत् ' आदेः अनेकव्यञ्जनस्य अश्नोतेश्च परोक्षायां द्वित्वे सति पूर्वस्य आदेः अतः आकारो भवति, नक् च आगमः । - आवृधतुः । आनृजे। आनङ्ग । आनशे। 'ऋत्' आदि-इति किम् ? आरतुः ॥३८॥
- भू-व्यथोः अत्-इतौ। ३९ । अनयोः परोक्षायां द्वित्वे सति पूर्वस्य यथासंख्यम् अत् इत् इत्यादेशौ भवतः । .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org