SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ भाख्याते तृतीयः पादः . [१७३ रेधतुः । रेधिथ । वधे इति किम् ? आरराधतुः गुरून् ॥ ४८॥ इसि सनि । ४९। राधेः वधे वर्तमानस्य सकारादौ सनि परे स्वरस्य इकारो भवति, न च द्विः । प्रतिरित्सति । वधे इति किम् ? आरिरात्सति गुरुम् ॥ ४९ ॥ रभ-लभ-शक-पत-पदाम् । ५० । एषां स्वरस्य सकारादौ सनि परे इकारादेशो भवति, न च द्विः । आरिप्सते । आलिप्सते । शिक्षति । पित्सति । पित्सते । सि इति किम् ? पिपतिषति ॥ ५० ॥ मि-मी-मा-दाम् इत् । ५१ । एषां स्वरस्य 'सकार'आदौ सनि परे इत् आदेशो भवति, न च द्विः । मित्सति शतम् । मित्सति शत्रुम् । 'मा' इति मेङ्-माङो ग्रहणम् । प्रतिमित्सते । निमित्सते । न मातेः आदादिकत्वात् । " तस्यापि ग्रहणम्" [ ] इति अन्ये । दित्सति । धित्सति ॥ ५१ ॥ ओत् मुचः वा अनाप्यस्य । ५२ । मुचेः अकर्मकस्य सकारादौ सनि परे स्वरस्य ओकारः वा भवति न च द्विः । मोक्षते, मुमुक्षते वत्सः स्वयमेव । अनाप्यस्य इति किम् ? मुमुक्षति वत्सं चैत्रः ॥५२॥ दम्भः धिप धीप् । ५३। दम्भेः सकारादौ सनि परे धिप् धीप् आदेशौ भवतः, न च द्विः । धिप्सति । धीप्सति । सकारादौ इति किम् ? दिदम्भिवति ॥ ५३ ॥ ज्ञपि-आपः ज्ञीप्-ईप् । ५४ । ज्ञपेः आपेश्च सकारादौ सनि परे यथासंख्यम् ज्ञीप् ईप आदेशौ भवतः, न च द्विः। ज्ञीसति । ईप्सति । 'सि' इति किम् ? जिज्ञपयिषति ॥ ५४ ॥ ऋधः ईत् । ५५ । ऋधः सकारादौ सनि परे ई आदेशो भवति, न च द्विः । ईर्सति । 'सि' इति किम् ? अदिधिषति ॥ ५५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy