________________
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासन॑म् ।
तृ-त्रप-फल-भजाम् । ४२ ।
एषाम् अपिति परोक्षायाम् सेटि थे च अतः एकारो भवति, न च द्विः । तेरतुः, तेरिथ । त्रेपे । फेलतुः । फेलिथ । भेजतुः । भेजिथ ॥ ४२ ॥ न व आदेशादि - ददि
-शसः । ४३ ।
वकारादेः आदेशादेः ददि-शसोश्च अपिति परोक्षायाम् सेटि थे च परे अतः एकारो न भवति ।
ववले | इयजिथ । दददे । विशशसुः । विशशसिथ || ४३ ॥
१७२ ]
'फण' आदि - - त्रस-भ्रम-वमः वा स्वरस्य । ४४ ।
'फण्' आदेः 'ज' प्रभृतीनां च स्वरस्य अपिति परोक्षायाम् सेटि थे च परे एकारो वा भवति, न च द्विः ।
फेतुः, पफणतुः । स्येमतुः सस्यमतुः । जेरतुः, जजरतुः । त्रेसतुः, तत्रसतुः । भ्रमतुः बभ्रमतुः । वेमतुः, ववमतुः । फेणिथ, पफणिथ । फण स्थम स्वन राज भ्राज भास इति फण्आदिः ॥ ४४ ॥
श्रन्थ-ग्रन्थः नलुक् च । ४५ ।
अनयोः स्वरस्य अपिति परोक्षायाम् सेटि थे च परे एकारो भवति वा, योगे च नकारस्य लुक्, न च द्विः ।
शेथतुः शश्रन्थतुः । श्रथिथ, शश्रन्थि । ग्रेथतुः जग्रन्थतुः । ग्रेथिथ, जग्रन्थि ॥ ४५ ॥
दम्भः । ४६ ।
दम्भेः स्वरस्य अपिति परोक्षायाम् एकारो भवति, नकारस्य च लुक्, न च द्विः । देभतुः ॥ ४६ ॥
थे वा । ४७ ।
दम्भेः स्वरस्य परोक्षायां थे परे एकारो वा भवति, तद्योगे च नकारस्य लुक, न च द्विः ।
देभिथ, ददम्भिथ ॥ ४७ ॥
राधेः वधे । ४८ ।
राधेः 'वध'अर्थस्य अपिति परोक्षायाम् सेटि थे च परे स्वरस्य एकारो भवति,
न च द्विः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org