SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ आख्याते तृतीयः पादः यकः तृतीयः । ३५ । 'यक्' अन्तस्य धातोः सन्नन्तस्य यङन्तस्य च परोक्षायाम ङे च परतः पर्वस्य तृतीय एकस्वरः अंश: द्विः भवति । कण्डूयियिषति । असूयियिषति ॥ ३५ ॥ ईष्यैः यिः सन् वा । ३६ । ईः सन् यङन्तस्य परोक्षा ङे च परतः यिः सन् वा द्विः भवति ईयियिषति, ईयिषिषति ॥ ३६ ॥ चरि चलि-पति-वदः अचि । ३७ । एते अचि परे वा द्विः भवन्ति । चराचरः । चलाचलः । पतापतः । वदावदः । पक्षे - चरः । चलः । पतः । वदः ।। ३७ ।। घनाघन - पाट्र्पटम् । ३८ । एतौ अचि वा निपात्येते । घनाघनः, हनः । पाहूपटः पटः । 'केषांचित् 'पटूपट' निपातनम् ॥ ३८ ॥ जुहोत्यादिः शिति । ३९ । जुहोत्यादिः शिति परे द्विः भवति । जुहोति । जिह्वेति । अदादिअन्तर्गणः जुहोत्यादिः ॥ ३९ ॥ चिक्लिद-चक्नस- दास्वत् साहृत्- मीढ्वत् । ४० । एते 'क' आदिप्रत्ययान्ताः निपात्यन्ते । Jain Education International : १७१ चिक्किदः अत्र 'इग्’उपान्त्यलक्षणः कः । चक्नसः अत्र अच् । उभयत्र घञर्थे वा कः । दासेः क्वस् दास्वान् । सहेः साह्रान् । महेः मीढ्ढान् ॥ ४० ॥ अकृतस्य अतः अन्तर् एकव्यञ्जनयोः एत् अपिति परोक्षायाम् सेटि थे च न द्विः । ४१ । असहायव्यञ्जनयोः मध्ये अतः अकृतस्य अपिति परोक्षायाम् सेटि थे च परे . एकारो भवति, न च द्विः । पेचतुः । पेचिथ । नेमतुः । नेमिथ । अकृतस्य इति किम् ? विशशरतुः । एकव्यञ्जनयोः इति किम् ? ततक्षिथ । सेटि थे च इति किम् ? पपक्थ ॥ ४१ ॥ १ 'पट्पटम्' इति शाकटायने ४|१|५५ For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy