SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १७०] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । पपाच । अचकमत । प्राक् इति किम् ? निनाय । स्वरविधेः इति किम् ? शुश्राव । 'प्राक् तु स्वरे स्वरविधेः' इति आद्विवचनम् अधिकारः ॥ २८ ॥ . आदिः एकस्वरः अंशः । २९ । अनेकस्वरस्य धातोः आदिः एकस्वरः अवयवः परोक्षायाम् ङ च द्विः भवति । जजागार । अचकमत । पूर्वेण सर्वस्य प्राप्तौ वचनम् ॥ २९ ॥ सन्-यश्च । ३०।। सन्नन्तस्य यङन्तस्य च आदिः एकस्वरः अंशः द्विः भवति । पिपक्षति । पापच्यते । 'च'कारः 'परोक्षा-डे च' इति उत्तरत्र समुच्चयार्थः ॥३०॥ नाम्नः यथेष्टम् एकः । ३१। नामावयवधातोः सन्नन्तस्य यङन्तस्य च परोक्षा-डे च परे यथेष्टम् एकस्वरः अंश: एकः द्विः भवति । पुपुत्रीयिषति, पुतित्रीयिषति, पुत्रीयियिषति । पुत्रीयन्तं प्रायुक्त अपुपुत्रीयत् इत्यादि ॥ ३१ ॥ न आदिः स्वरः। ३२। नामावयवस्य धातोः आदिः स्वरो द्विः न भवति । अशिश्वीयिषति, अश्वीयियिषति, अश्वीयिषिषति ।। ३२ ॥ ततः द्वितीयः। ३३ । 'नाम्नः' इति निवृत्तम् 'न आदिः स्वरः' [आख्या० तृती० पादे सू० ३२] इति प्रतिषेधात् । अनेकस्वरस्य स्वरादेः धातोः सन्नन्तस्य यङन्तस्य च परोक्षा-डे च परे आदिस्वरात् परः द्वितीयः एकस्वरः अंशः द्विः भवति । ___ अटिटिषति । अशाश्यते । प्राक् तु स्वरे स्वरविधेः-प्रोणुनाव ॥ ३३ ॥ न न-ब-द-राः व्यञ्जने अये । ३४ । स्वरादेः धातोः सन्नन्तस्य यङन्तस्य च परोक्षा-डे च परे आदिस्वरात् पराः न-ब-द-राः यकारवर्जिते व्यञ्जने परे द्विः न भवन्ति । उन्दिदिषति । उब्जिजिषति । अड्डिडिषति । अर्चिचिषति । न-ब-द-रा इति किम् ? ईचिक्षिषते । अये इति किम् ? अरिरिषति । अरार्यते । पुनः द्वित्वे सति पुनर्द्वित्वं न · भवति-लोलूयिषते । केषांचिद् भवति-सुसोयिषते ॥ ३४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy