SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आख्याते तृतीयः पादः कष्ट-कक्ष-कृच्छू-सत्र-गहनात् पापे चिकीर्षों ।। २१ ॥ एभ्यः पापे वर्तमानेभ्यः चिकीर्षों क्यङ् प्रत्ययो भवति । कष्टायते । कक्षायते । कृच्छ्रायते । सत्रायते । गहनायते । पापे इति किम् ? सत्रं चिकीर्षति ॥ २१ ॥ बाष्प-ऊष्म-फेन-धूमात् उद्वमौ । २२ । एभ्यः आप्येभ्यः उद्वमौ अर्थे क्यङ् प्रत्ययो भवति । बाप्पायते । ऊष्मायते । फेनायते । धूमायते ॥ २२ ।। __अङ्गात् निरसने णित् । २३ । अङ्गवाचिनः आप्यात् निरसने अर्थ णिङ् प्रत्ययो भवति । हस्तयते । पादयते । निरसने इति किम् ? हस्तम् आचष्टे हस्तयति । डकारः आत्मनेपदार्थः ॥ २३ ॥ पुच्छात् असौ । २४ । पुच्छात् आप्यात् 'असि'अर्थे णिङ् प्रत्ययो भवति । पुच्छम् अस्यति पुच्छयते । परिपुच्छयते ॥ २४ ॥ भाण्डात् समाचितौ । २५ । 'भाण्ड'वाचिनः आप्यात् समाचितौ अर्थे णिङ् प्रत्ययो भवति । संभाण्डयते । परिभाण्डयते ॥ २५ ॥ चीवरात् परिधा-अर्जने । २६ । 'चीवर'शब्दात् आप्यात् परिधाने अर्जने च वर्तमानात् परः णिङ् प्रत्ययो भवति । चीवरं परिधत्ते अर्जयति वा संचीवरयते ॥ २६ ॥ धातुः। २७। इतः ऊर्ध्वम् धातुः' इति अधिकृतं वेदितव्यम् ।। २७ ।। द्विः परोक्षा-डे प्राक् तु स्वरे स्वरविधेः । २८ । परोक्षायाम् ङे च परे धातुः द्विः भवति, स्वरादौ तु द्वित्वनिमित्ते परे स्वरस्य कार्यात् प्राक् । २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy