________________
१६८ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
गौणात् अम-अव्ययात् नाम्नः आचरेः आप्यात् आधारात् च आचरौ अर्थे क्यच् प्रत्ययो भवति । पुत्रीयति छात्रम् । प्रासादीयति कुट्याम् ॥ १५ ॥
वरिवस्-तपम्-नमसः कृतौ । १६ । एभ्यः कृतेः आप्येभ्यः कृतौ क्यच् प्रत्ययः भवति ।
वरिवस्यति गुरून् । तपस्यति । देवान् नमस्यति । 'नमः करोति'-' नमः'शब्दम् उच्चारयति इत्यादौ अनभिधानात् न भवति ॥ १६ ॥
चित्रङः विस्मये । १७। . ‘विस्मय'अर्थात् 'चित्र 'शब्दात् आप्यात् कृतौ अर्थे क्यच् प्रत्ययो भवति । चित्रीयते । विस्मये इति किम् ? चित्रं करोति ॥ १७ ॥
रोमन्थात् उच्चर्वणे क्यङ् । १८ । अभ्यवहृतस्य उद्गीर्य चर्वणम् उच्चर्वणम् , तत्र वर्तमानात् 'रोमन्थ 'शब्दात् आप्यात् कृतौ अर्थे क्यङ् प्रत्ययो भवति ।
रोमन्थनं रोमन्थः तं करोति रोमन्थायते गौः । उच्चर्वणे इति किम् ? कोटः रोमन्थं वर्तयति-उद्गीर्णम् अवगीर्णं वा द्रव्यं वर्तयति इत्यर्थः ॥ १८ ॥
'शब्द'आदेः वा । १९ । . ' शब्द 'आदेः आप्यात् कृतौ क्यङ् प्रत्ययो भवति वा ।
शब्दायते, शब्दयति । शब्द वैर कलह अभ्र सुदिन दुर्दिन इति ‘शब्द ' आदिः ॥ १९ ॥
'सुख'आदेः भुजौ । २० । 'सुख'आदेः आप्यात् भुजौ अर्थे क्यङ् प्रत्ययो भवति ।
सुखायते । दुःखायते । सुखं वेदयति प्रसाधकः चैत्रस्य, न इयम् आनुमानिकी वेदना भुज्यर्थः । सुख दुःख तृप्र कृच्छ्र अलीक कृपण सोढ प्रतीप इति 'सुख'आदिः ॥ २० ॥
१ “दुःखायते । ‘भुजि'इति किम् ? सुखं वेदयते प्रसादको देवदत्तस्य । नेयमानुमानिकी वेदना भुज्यर्थः । यथा हि 'ओदनं भुङ्क्ते' इति भोजने रसायनुभवः तथाविधः सुखाद्यनुभवोऽत्र भुज्यर्थः" इति अमोघ. १1१1३७ एतदनुसारेण अत्र 'भुजौ इति किम् ?' इति पाठः पतितः । आनुमानिक्यां वेदनायां 'सुखं वेदयति' इति सुखयति न तु सुखायते इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org