________________
आख्याते तृतीयः पादः
। १६७ ओजायते । अप्सरायते ॥ ९ ॥
'वि'अर्थे 'भृश'आदेः स्-तोः । १० । कर्तुः ‘भृश'आदेः 'च्चि 'अर्थे क्यङ् प्रत्ययो भवति तद्योगे च यथासंख्यम् स्-तोः लुक् ।
भृशायते । उन्मनायते । वेहायते । कर्तुः इति किम् ? भृशं करोति । भृश शीघ्र चपल पण्डित उत्सुक उन्मनस् दुर्मनस् वर्चस् ओजस् वेहत् शश्वत् तृपत् नील फेन इति 'भृश'आदिः ॥ १० ॥
'निद्रा'आदिभ्यः धर्मिणि क्यष् । ११ । 'निद्रा 'आदिभ्यः धर्मिणि वर्तमानेभ्यः कर्तृभ्यः ‘चि'अर्थे क्यष् प्रत्ययो भवति ।
निद्रायति, निद्रायते । धर्मिणि इति किम् ? धर्ममात्रवृत्ते: मा भूत् । कर्तुः इति किम् ? अनिद्रं निद्रावन्तं करोति । निद्रा । कृपा । करुणा । लोहित । चर्मन् । 'निद्रा'आदयः प्रयोगगम्याः ॥ ११ ॥
'डाच'अन्तात् । १२ । 'डाच् 'अन्तात् कर्तुः ‘च्चि'अर्थे क्यष् प्रत्ययो भवति । पटपटायति, पटपटायते । कर्तुः इति किम् ? पटपटा करोति ॥ १२ ॥
आत्मनः इषौ आप्यात् काम्यः । १३ । कर्तुः आत्मनः इच्छायाम् आप्यात् नाम्नः परः ‘काम्य'प्रत्ययो भवति ।
इदम् इच्छति इदंकाम्यति । स्वःकाम्यति । आत्मनः इति किम् ? दुःखम् इच्छति परस्य । 'महान्तं पुत्रम् इच्छति' इत्यत्र सापेक्षत्वात् न भवति । 'क्यच्" काम्य'अन्तम् इषौ अकर्मकम् । धातूनां सकर्मकत्वे अकर्मकत्वे च प्रयोगः प्रमाणम् ॥ १३ ॥
क्यच च अम-अव्ययात् । १४ । 'म'अन्त-अव्ययवर्जितात् नाम्नः आप्यात् आत्मन इच्छायाम् ' क्यच् 'प्रत्ययो भवति काम्यश्च ।
पुत्रीयति । पुत्रकाम्यति । अम-अव्ययात् इति क्रिम् ? इदम् इच्छति । स्वर् इच्छति ॥ १४ ॥
गौणात् आधारात् च आचरौ। १५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org