SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् 1 इकः अकलि-हलेः एङ् । २ । 'इक्' अन्तस्य नाम्नः कलि-हलिवर्जितस्य गिचि परे एड् भवति । पटयति । लघयति । अपीपटत् । अकलि-हलेः इति किम् ? अचकलत् । अजहलत् ॥ २ ॥ १६६ ] सत्य-अर्थ-वेदस्य आः । ३ । एषां 'गिचि परे आकारो भवति । सत्यापयति । अर्थापयति । वेदापयति ॥ ३ ॥ श्वेताश्व-अश्वतर-गालोडित आह्वरकस्य अश्व-तर- इत-कलुक् । ४ । 'श्वेताश्व 'आदीनाम् णिचि परे यथासंख्यम् अश्व-तर- इत-कलुगू भवति । श्वेताश्वम् आचष्टे श्वेतयति । अश्वयति । गालोडयति । आह्वरयति ॥ ४ ॥ कर्तुः गौणात् आचारे क्विप् । ५ । गुगात् विषयान्तरम् आगतः गौणः । गौणात् कर्तुः आचारे क्विप् भवति । अश्व इव आचरति अश्वति । कर्तुः इति किम् ? पुत्रीयति छात्रम् ॥ ५ ॥ गल्भ -क्लीब-होडात् ङित् । ६ । एभ्यः गौणेभ्यः कर्तृभ्यः आचारे क्विप् भवति, स च ङित् । गल्भते । क्लबते । होडते ॥ ६ ॥ Jain Education International क्यङ् । ७ । कर्तुः गौणाचारे क्यङ् प्रत्ययो भवति । हंसायते ॥ ७ ॥ सः वा लुक् च । ८ । सकारान्तात् गौणात् कर्तुः आचारे क्यङ् प्रत्ययो भवति, तद्योगे सकारस्य वा लुक् । पयायते, पयस्यते ॥ ८ ॥ ओजः - अप्सरसः । ९ । आभ्यां कर्तृभ्यां गौणाभ्याम् आचारे क्यङ् प्रत्ययो भवति, तद्योगे सस्य नित्यं लुक् । १ अत्र द्वितीय तृतीय - चतुर्थसूत्रेषु ' णिचि 'स्थाने ' णिचि' इति समुचितम् प्रथमसूत्रेण नाम्नः 'णिञ् ' विधानात् । For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy