________________
आख्याते तृतीयः पादः
[ १६५
प्राणिकर्तृविषयेऽर्थे वर्तमानात् अणिञन्तात् धातोः यः णिञ् तदन्तात् परस्य तस्य अणिञः णिञ्प्रकृतेः धातोः कर्मणि असति, कर्तरि परस्मैपदं भवति ।
आसयति चैत्रम् । प्राणिनि इति किम् ? शोषयते व्रीहीन् आतपः । अणिञः इति किम् ? स्वयम् आरोहयमाणं गजं प्रयुङ्क्ते आरोहयति । ञकारः किम् ? चेतयमानः प्रयोजयति चेतयति ॥ ७९ ॥
चलि आहारार्थ- इङ्-पु- द्रु-त्र-बुध-युध-नश - जनः । ८० । चलिअर्थात् आहारअर्थात् 'इङ्' आदिभ्यश्च गिञन्तेभ्यः कर्तरि परस्मैपदं भवति ।
चलयति, कम्पयति शाखाम् । भोजयति, आशयति चैत्रम् अन्नम् । अध्यापयति सूत्रम् । प्रावयति राज्यम् । द्रावयति अयः । स्रावयति कुण्डिकाम् । बोधयति पद्मम् रविः । योधयति काष्ठानि । नाशयति पापम् । जनयति पुण्यम् ॥ ८० ॥
इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ आख्याते द्वितीयः पादः समाप्तः ॥
आख्याते तृतीयः पादः
नाम्नः णिञ् बहुलं 'कृञ् 'आदिषु । १ ।
नाम्नः परः ‘कृञ्' आदीनां धातूनाम् अर्थे णिञ् बहुलं भवति ।
सूत्रयति व्याकरणम् । व्रतयति पयः - पय एव भुङ्क्ते इत्यर्थः । व्रतयति सावद्यान्नम् न भुङ्क्ते इत्यर्थः । पटुम् आचष्टे पटयति । कृतम् गृह्णाति कृतयति । तूस्तानि विहन्ति वितस्तयति - विजटीकरोति इत्यर्थः । रूपं पश्यति रूपयति । लोमानि अनुमार्ष्टि अनुलोमयति । तृणानि उत्प्लुत्य शातयति उत्तृणयति । वस्त्रेण समाच्छादयति संवस्त्रयति । वीणया उपगायति उपवीणयति । तूलैः अवकुष्णाति अवतूलयति । श्लोकैः उपस्तौति उपश्लोकयति । सेनया अभियाति अभिषेणयति । वर्मणा संनह्यति संवर्मयति । चूर्णैः अवकिरति अवचूर्णयति । वास्या छिनत्ति वासयति । अश्वेन अतिक्रामति अत्यश्वयति । 'मुण्डम् धवलं बलीवर्दम् करोति' इति उभयधर्मविधाने, 'मुण्डम् शुक्लं करोति' इति अनुवादे, 'आख्यानम् आचष्टे' इत्यत्र च अनभिधानात् न भवति ॥ १ ॥
Jain Education International
46
१ आख्यानम् आचष्टे " आख्यातम् पा० ।
८८
इति अमोघ० ४ । १ । २८ । आख्यानम् "
For Private & Personal Use Only
इति हैमम् ।
www.jainelibrary.org