SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १६४ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । परिरमति । आरमति । विरमति । परि-आ-वेः इति इति किम् ? रमते । अभिरमते ॥ ७१ ॥ भवति । उपात् । ७२ । ' उप 'पूर्वात् रमेः कर्तरि परस्मैपदं भवति । Jain Education International उपरमति । पृथग्योगः उत्तरार्थः ॥ ७२ ॥ वा अकर्मकात् । ७३ । 'उप' पूर्वात् अकर्मकात् रमतेः कर्तरि परस्मैपदं वा भवति । उपरमति, उपरमते वा सावद्यात् ॥ ७३ ॥ वि-आदाञः अपराङ्गे । ७४ । 'व्याङ्' पूर्वात् दाञः कर्तरि परस्मैपदं भवति, न चेत् स व्यादाञ् पराङ्गविषयो व्याददाति मुखम् । व्यात् इति किम् ? दत्ते । आदत्ते । आविदत्ते । अपराङ्गे इति किम् ? व्याददते पिपीलिकाः पतङ्गस्य मुखम् ॥ ७४ ॥ परा- अनोः कृञः । ७५ । परा-अनुभ्यां परात् कृञः कर्तरि परस्मैपदं भवति । पराकरोति । अनुकरोति ॥ ७५ ॥ प्रति-अभि-अतेः क्षिपः । ७६ । एभ्यः परात् क्षिपतेः कर्तरि परस्मैपदं भवति । प्रतिक्षिपति । ईदित्वात् आत्मनेपदप्राप्तौ वचनम् ॥ ७६ ॥ प्रात् वहः । ७७। 'प्र' पूर्वात् वहेः परस्मैपदं भवति । प्रवहति ॥ ७७ ॥ परेः मृषश्च । ७८ । 'पर' पूर्वात् मृषेः वहेव कर्तरि परस्मैपदं भवति । परिमृष्यति । परिवहति ॥ ७८ ॥ प्राणिनि अणित्रः णित्रन्तस्य । ७९ । For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy