________________
आख्याते द्वितीयः पादः 'वस' इति वसतेः न वस्तेः । अंदोविधानात् उत्तरण सिद्धे निषेधसिद्धयर्थ वचनम् ॥६५॥
ई-गितः। ६६ ।। ईदितः गितश्च फलेशे कर्तरि आत्मनेपदं भवति, पदान्तरगम्ये तु वा ।
यजते । कुरुते । पदान्तरगम्ये- स्वम् ओदनं पचति, पचते । स्वं धनं दत्ते, ददाति वा । फलेशे इति किम् ? यजन्ति याजकाः। पचन्ति सूपकाराः । याजकादिलभ्यं दक्षिणादि न क्रियायाः साक्षात् फलम् पूर्व-साहचर्याभावात् तन्न तदीशः क्रियाफलेशः ॥६६॥
वदः अपात् । ६७। अपात् परात् वदेः फलेशे कर्तरि आत्मनेपदं भवति, पदान्तरगम्ये तु वा । एकान्तम् अपवदते । पदान्तरगम्ये-स्वं शत्रुम् अपवदति, अपवदते वा ॥६७॥
ज्ञः अनुपसर्गात् । ६८। अनुपसर्गात् जानातेः फलेशे कर्तरि आत्मनेपदं भवति, पदान्तरगम्ये तु वा । गां जानीते । स्वां गां जानीते, जानाति वा ॥ ६८ ॥
यमः सम्-उत्-आङा अशास्त्रे । ६९ । एभ्यः परात् यमेः अशास्त्रविषये फलेशे कर्तरि आत्मनेपदं भवति, पदान्तरगम्ये तु वा ।
संयच्छते व्रीहीन् । उद्यच्छते भारम् । आयच्छते रज्जुम् । पदान्तरगम्ये-स्वान् व्रीहीन् संयच्छति, संयच्छते वा। सम्-उत्-आङः इति किम् ? नियच्छति । अशास्त्रे इति किम् ? चिकित्साम् उद्यच्छति-चिकित्साशास्त्रे उद्यमं करोति-इत्यर्थः ॥ ६९ ॥
शेषात् परस्मै । ७० । उक्तस्वरूपात् अन्यस्मात् धातोः कर्तरि परस्मैपदं भवति । जयति । समूहति ॥ ७० ॥
परि-आ-वेः रमः । ७१ । एभ्यः परात् रमतेः कर्तरि परस्मैपदं भवति ।
१ अस्मात् विधानात् इत्यर्थः । २ गित्त्वात् षट्षष्टितमसूत्रेण । ३" चलि-आहारार्थ-" इत्यादिना अशीतितमसूत्रेण अदः आहारार्थत्वेन नृतश्च गत्यर्थत्वेन आत्मनेपदनिषेधः अतोऽत्र आत्मनेपदविधानम् इति आशयः । ४ निषेधे प्राप्ते सिद्धयर्थम् आत्मनेपदसिद्धयर्थम् इति अभिप्रायः । ५ फलेशे। ६ "क्रियायाः पूर्व सह च (चा)भावात्" १।४।६६ । शाकटायनीयअमोघवृत्ती ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org