________________
१६२ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
अणिअन्तस्य यत् कतस्मिन् णिअन्तस्य कर्तरि तत एव णिजन्तात् अस्मृत्यर्थात् आत्मनेपदं भवति ।
__ आरोहयते हस्ती हस्तिपकान् । कर्मणि इति किम् ? दर्शयति प्रदीपः भृत्यान् । अणिञः इति किम् ? आरोहयति हस्तिपकान् महामात्रः, आरोहयन्ति महामात्रेण हस्तिपकाः । अकारः किम् ? गगयते गगो गोपालकम् । अस्मृतौ इति किम् ? स्मरयति वनगुल्मं कोकिलः ॥ ६१ ।।
भी-स्मि-लीभ्यः ष-आकारे । ६२ । एभ्यः यथायोगम् षकारे आकारे च कृते कर्तरि आत्मनेपदं भवति ।
जटिलः भीषयते । जटिलः विस्मापयते । जटाभिः आलापयते । बहुवचनात् 'ली' इति लिनाति-लीयत्योः उभयोः अपि ग्रहणम् । ष-आकारे इति किम् ? कुच्चिकया भापयति ।। ६२ ॥
गृधि-वञ्चेः विप्रलम्भे । ६३ । विप्रलम्भार्थाभ्याम् अणिजन्ताभ्यां कर्तरि आत्मनेपदं भवति ।
बटुं गर्भयते, वञ्चयते । विप्रलम्भ इति किम् ? श्वान गर्धयति-काङ्क्षाम् अस्य उत्पादयति--इत्यर्थः ॥ ६३ ॥
मिथ्याकृतः अभ्यासे । ६४। अभ्यासः पुनः पुनः क्रियाऽऽवृत्तिः, तदर्थात् 'मिथ्या 'शब्दयुक्तात् कृञः गिजन्तात् आत्मनेपदं भवति ।
मिथ्यापदं कारयते-सोपचारं पुनः पुनः उच्चारयति-इत्यर्थः । ‘मिथ्या' इति किम् ? पदं साधु कारयति । अभ्यासे इति किम् ? सकृत् पदं कारयति ॥ ६४ ॥ परिमुह-रुचि-धेट-पा-अद-दम्-आयम-आयस-बद-वस-नृतः
फलेशे पदान्तरगम्ये तु वा । ६५ । एभ्यः अणिजन्तेभ्यः प्रधानफलस्वामिनि कर्तरि विवक्षिते आत्मनेपदं भवति, पदान्तरात् तु गम्यमाने फले वा ।
परिमोहयते शत्रुम् । रोचयते चैत्रम् । धापयते शिशुम् । आदयते चैत्रेण । दमयते हस्तिनम् । आयामयते हस्तिनम् । आयामयते सर्पम् । आयासयते बटुम् । वादयते मैत्रम् । वासयते चैत्रम् । नर्तयते नटम् । पदान्तरगम्ये तु वा-स्वं रिपुं परेषु परिमोहयते परिमोहयति वा इत्यादि । 'धेट् 'साहचर्यात् 'पा 'इति पानार्थस्य ग्रहणम् न पातेः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org