________________
आख्याते द्वितीयः पादः
[१६१ किम् ? निष्टपति । वे अङ्गे च इति किम् ? वितपति पृथ्वी सविता । उत्तपति सुवर्ण सुवर्णकारः ॥ ५६ ॥
__ व्यक्तवाचाम् अनोः वदः । ५७।। __ येषां वाचि व्यक्ता वर्णाः अर्थो वा उपलभ्यते ते व्यक्तवाचः, तेषां संबन्धिनि अर्थे वर्तमानात् ' अनु 'पूर्वात् वदेः असति कर्मणि, कर्तरि आत्मनेपदं भवति ।
अनुवदते चैत्रः मैत्रस्य । असति कर्मणि इति किम् ? उक्तम् अनुवदति । व्यक्तवाचाम् इति किम् ? अनुवदति वीणा ॥ ५७ ॥
सहोक्तौ । ५८। व्यक्तवाचा सहोक्तौ वर्तमानात् वदेः कर्तरि आत्मनेपदं भवति ।
संप्रवदन्ते ग्राम्याः । व्यक्तवाचाम् इति किम् ? संवदन्ति कुक्कुटाः । “शुक-सारिकादयः केषांचित् व्यक्तवाचः, अपरेषां न" इति । सहोक्तौ इति किम् ? चैत्रेण उक्ते मैत्रः वदति ॥ ५८॥
विवादे वा । ५९। विरुद्धः वादः विवादः, तद्विषयायाम् सहोक्तौ वदेः कर्तरि आत्मनेपदं भवति वा।
विप्रवदन्ति विप्रवदन्ते वा मौहूर्ताः । विवादे इति किम् ? संप्रवदन्ते वैयाकरणाः । सहोक्तौ इति किम् ! मौहूर्ताः मौहूर्तेन सह क्रमेण विप्रवदन्ति ॥ ५९ ॥
ज्ञान-दीप्ति-यत्न-विमति-उपसंभाष-उपमन्त्रणे । ६० ।
ज्ञान-दीप्ति-यत्न-विमतिषु अर्थविशेषणेषु उपसंभाषणे उपमन्त्रणे च अर्थे वर्तमानात् वदेः कर्तरि आत्मनेपदं भवति ।
क्दते विद्वान् स्याद्वादे-ज्ञात्वा वदति-वदितुं जानाति-इत्यर्थः । वदते विद्वान् तत्त्वनिर्णये-दीप्यमानो वदति-वदन् वा दीप्यते इत्यर्थः । यत्ने-तपसि वदते-तद्विषयम् उत्साहं करोति इत्यर्थः । विमतौ-गेहे विवदन्ते-विमत्या किञ्चिद् भाषन्ते-इत्यर्थः । उपसंभाषः उपसान्त्वनम् उपलम्भनं वा-कर्मकरान् उपवदते-उपसान्त्वयति उपालभते वा-इत्यर्थः । उपमन्त्रणम् रहसि उपच्छन्दनम्-कुलभार्याम् उपवदते-उपच्छन्दयतिइत्यर्थः । “दीप्ति'आदयः धातोः एव अर्थाः” इति अपरे । एतेषु इति किम् ? चैत्रो वदति ॥ ६०॥
. कर्मणि अणिनः णिनः कर्तरि अस्मृतौ । ६१ । २१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org