SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १६० ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । 'उप'पूर्वात् तिष्ठतेः कर्मणि असति, कर्तरि आत्मनेपदं भवति । विद्यायाम् उपतिष्ठते । असति कर्मणि इति किम् ? राजानम् उपतिष्ठति ॥५१॥ ज्ञः। ५२। जानातेः असति कर्मणि, कर्तरि आत्मनेपदं भवति । सर्पिषः जानीते । कर्मणि असति इति किम् ? स्वरेण पुत्रं जानाति ॥ ५२ ॥ समः गम्-ऋच्छि -पृच्छि-श्रु-स्वरति-अर्ति-वेत्ति-दृशः । ५३। एभ्यः 'सम् 'पूर्वेभ्यः असति कर्मणि, कर्तरि आत्मनेपदं भवति । संगच्छते । समृच्छते । संघृच्छते । संशृणुते । संस्वरते । संविद्रते । संपश्यते । असति कर्मणि इति किम् ? संगच्छति मित्रम् ॥ ५३ ।। __ शब्दे च अनाशे वेः कृतः। ५४ । 'वि'पूर्वात् करोते: अनाशार्थात् असति कर्मणि, शब्दे च कर्मणि कर्तरि आत्मनेपदं भवति । विकुर्वते सैन्धवाः-साधुदान्ता वल्गन्ति इत्यर्थः । कोष्टा विकुरुते स्वरान् । शब्दे च इति किम् ? विकरोति मृदम् । अनाशे इति किम् ? विकरोति अध्यायम्-विनाशयति इत्यर्थः ॥ ५४ ॥ हनि-यमः स्वे अङ्गे च आङः । ५५। आङः पराभ्याम् हनि-यमिभ्याम् कर्मणि असति, कर्तुः स्वे अङ्गे च कर्मणि कर्तरि आत्मनेपदं भवति । आहते । आयच्छते । आहते शिरः । आयच्छते पादम् । स्वे अङ्गे च इति किम् ? आहन्ति वृषलम् । आयच्छति रज्जुम् ॥ ५५ ॥ . वि-उदः तपः । ५६ । 'वि'- उत् 'परात् तपतेः असति कर्मणि, स्वे अङ्गे च कर्मणि कर्तरि आत्मनेपदं भवति । वितपते, उत्तपते पाणिम् । वि-उदः इति किम् ? निष्टपति । स्वे अङ्गे च इति १ "स्वरति ' 'अति' इत्यत्र तिनिर्देशः यङ्लुनिवृत्त्यर्थः । अन्येषां तु यङलुपि अपि आत्मनेपदम्- संजंगते संपरीपृष्टे संशोधते संवेवित्ते संदरीदृष्टे । ऋच्छेस्तु यह न संभवत्येव"इति हैमम् ३।३.८४ सूत्रम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy