________________
आख्याते द्वितीयः पादः
[१५९ वा लिप्सौ। ४४। उपपूर्वात् तिष्ठतेः लिप्सौ कर्तरि आत्मनेपदं वा भवति । भिक्षुः दातारम् उपतिष्ठते, उपतिष्ठति वा ॥ ४४ ॥
स्थेय-प्रकाशने । ४५ । स्थेयः विवादपदे निर्णेता-प्रमाणभूतः पुरुषः, तद्विषयात् प्रकाशनार्थाच्च तिष्ठतेः कर्तरि आत्मनेपदं भवति ।
त्वयि तिष्ठते विवादः-त्वयि प्रमाणभूते निर्णयाय तिष्ठति इत्यर्थः । छात्राय तिष्ठते कन्या-तत्समर्थाऽऽकरणेन स्वाभिप्रायं प्रकाशयति इत्यर्थः ॥ ४५ ॥
उदः अनूव॑हे । ४६ । अनूवरूपायां चेष्टायां वर्तमानात् तिष्ठतेः उदः परात् कर्तरि आत्मनेपदं भवति ।
व्रते उत्तिष्ठते तत्र उद्यमं करोति इत्यर्थः । ‘अनूल ' इति किम् ? आसनात् उत्तिष्ठति । "ईहे इति किम् ? ग्रामात् शतम् उत्तिष्टति-उत्पद्यते इत्यर्थः ॥ ४६ ॥
सम्-वि-प्र-अवात् । ४७ । एभ्यः परात् तिष्ठतेः कर्तरि आत्मनेपदं भवति । संतिष्ठते । वितिष्ठते । प्रतिष्ठते । अवतिष्ठते ॥ ४७ ॥
प्रतिज्ञाने । ४८। प्रतिज्ञाने अर्थे वर्तमानात् तिष्ठतेः कर्तरि आत्मनेपदं भवति । नित्यं शब्दम् आतिष्ठते ॥ ४८ ॥
समः गिरात् । ४९ । 'सम् 'पूर्वात् प्रतिज्ञानार्थात् गिरतेः कर्तरि आत्मनेपदं भवति । स्याद्वाद संगिरते । ‘गिरात्' इति 'श'निर्देश: गृणाति' निवृत्त्यर्थः ॥ ४९ ॥
अवात् । ५०। 'अव 'पूर्वात् गिरतेः कर्तरि आत्मनेपदं भवति । अवगिरते ॥ ५० ॥
उपात् असति कर्मणि । ५१।। . १ "तत्समर्थाचरणेन" इति १।४।३७ । सूत्रे शाकटायनीयं वचः । २ अत्र सत्रे अष्टचत्वारिंशत्तमसूत्रात् 'स्था' इति अनुवर्तनीयम् अथवा अत्रैव सूत्रे “स्था' इति पदं स्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org