________________
१५८ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
आयूर्वात् स्पर्धे वर्तमानात् ह्वयतेः कर्तरि आत्मनेपदं भवति । मल्लो मल्लम् आह्वयते-स्पर्धमानः तस्य आह्वानं. करोति-इत्यर्थः । अन्यत्र गाम् आह्वयति ॥ ३९ ॥
सम्-नि-वेः। ४०। सम्-नि-विभ्यः परात् ह्वयतेः कर्तरि आत्मनेपदं भवति । संह्वयते । निह्वयते । विह्वयते ।। ४० ॥
उपात् । ४१। उपपूर्वात् ह्वयतेः कर्तरि आत्मनेपदं भवति । उपह्वयते । योगविभागः उत्तरार्थः ॥ ४१ ॥
स्वीकारे यमः । ४२ । स्वीकारे वर्तमानात् उपपूर्वात् यमेः कर्तरि आत्मनेपदं भवति ।
कन्याम् उपयच्छते । “ उपायंस्त महाँस्त्राणि" [ ] स्वीकार' इति च्विनिर्देशः किम् ? शाटकान् उपयच्छति ।। १२ ।।
स्थः पथि-मैत्री-देवार्चा-संगम-मन्त्रकरणे । ४३ । 'पथि 'आदिविषयात् तिष्ठतेः उपपूर्वात् कर्तरि आत्मनेपदं भवति । पथिस्थः अर्थः 'पथि' इत्युच्यते । मैत्री उपस्थानस्य हेतुः प्रयोजनं वा । शेषाः धातोः अर्थाः । मन्त्रः करणं यस्य स मन्त्रकरणः ।
अयं पन्थाः सुनम् उपतिष्ठते । मैत्री-रथिकान् उपतिष्ठते । देवार्चा-जिनेन्द्रम् उपतिष्ठते । संगमे-गङ्गा यमुनाम् उपतिष्ठते । मन्त्रकरणे-गजन्या उपतिष्ठते । 'पथि' आदिषु इति किम् ? "एतद् एव अस्य कापेयम् यद् अर्कम् उपतिष्ठति"। [ ] 'मन्त्र'ग्रहणं किम् ? भर्तारम् उपतिष्ठति यौवनेन । 'करणं किम् ? ऋचि विद्याम् उपतिष्ठति ॥ ४३ ॥
१ हैमेऽपि एतदेव पद्यम् ३ । ३ । ५९ सूत्रे । २ अत्र हैमे ३ । ३।६० सूत्रे इदम् अन्यदपि पद्यरूपम् उदाहरणम्-“बहुनामप्यचित्तानामेको भवति चित्तवान् । पश्य वानरसंघेऽस्मिन यमपतिष्यते ॥ ३'जगती' नाम छन्दसा इति आशयः । गजह्या पू० । 'गजह्या' इति पाठान्तरापेक्षया 'जगत्या' वा । अथवा अत्र 'गायत्र्या' इति पाठो भवेत् । ४ अत्र चापल्यं विवक्षितम् न देवपूजा अतो नात्मनेपदम् । “मेवं मंस्थाः सचित्तोऽयम् एषोऽपि हि यथा वयम" इत्येवं पूर्वार्धम् हैमे ३ । ३ । ६० सूत्रे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org