________________
आख्याते द्वितीयः पादः इति किम् ? अजां नयति ग्रामम् ॥ २० ॥
कर्तृस्थ-अमूर्ताप्यात् । २१ । कर्तृस्थ-अमूर्तकर्मकात् नियः कर्तरि आत्मनेपदं भवति ।
श्रमं विनयते । कर्तृस्थ' इति किम् ? चैत्रः मैत्रस्य मन्युं विनयति । 'अमूर्त. इति किम् ? गहुं विनयति । आप्य” इति किम् ? बुद्धया विनयति ॥ २१ ॥
सम्-प्रतेः ज्ञः अस्मृतौ । २२ । सम्-प्रतिभ्यां परात् जानातेः कर्तरि आत्मनेपदं भवति ।
शतं संजानीते, प्रतिजानीते । अस्मृतौ इति किम् ? मातरं संजानाति-स्मरति इत्यर्थः ।। २२ ॥
निहवे । २३ । निह्नवे वर्तमानात् जानातेः कर्तरि आत्मनेपदं भवति । शतम् अपजानीते-अपलपति इत्यर्थः ॥ २३ ॥
सनः अननोः । २४ । अन् अनु'पूर्वात् जानातेः सन्नन्तात् कर्तरि आत्मनेपदं भवति । धर्म जिज्ञासते । अन् अनोः' इति किम् ? धर्मम् अनुजिज्ञासति ॥ २४ ॥
श्रुवः अप्रति-आङः । २८ । शृणोतेः सन्नन्तात् कर्तरि आत्मनेपदं भवति, न तु प्रति-आयूर्वात् ।
शुश्रूषते । अप्रति-आङः इति किम् ? प्रतिशुश्रूषति । 'मित्रं प्रति शुश्रूषते' इत्यत्र योगाभावात् न भवति प्रतिषेधः ॥ २५ ॥
स्मृ-दृशः । २६ । आभ्यां सन्नन्ताभ्यां कर्तरि आत्मनेपदं भवति । सुस्मूर्षते । दिदृक्षते ॥ २६ ॥
प्राग्वत् । २७ । सनः प्राग् यो धातुः तस्मात् इवं सन्नन्तात् कर्तरि आत्मनेपदं भवति । एदिधिषते । समूहिहिषते ॥ २७ ॥ १ अत्र 'प्रति' इत्यस्य 'शुश्रूषते' इत्यनेन योगाभावः संबन्धाभावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org